पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८२

  • पञ्चतन्त्रम्

[५ अपरीक्षित- सतः स्म । अथ तयोरेकबुद्धिर्नाम मण्डूको मित्रतां गतः। एवं ते त्रयोऽपि वेलायां कश्चित्कालं सुभाषितगोष्ठीसुखमनुभूय भूयोऽपि सलिलं प्रविशन्ति । अथ कदाचित्तेषां गोष्ठीगतानां जालहस्ता धीवराः प्रभूतै- मत्स्यैापादितैर्मस्तके विधृतैरस्तमनवेलायां तस्मिञ्जलाशये लमायाताः। ततः सलिलाशयं दृष्ट्वा मिथः प्रोचुः-'बहुमत्स्योऽयं हृदो दृश्यते स्वल्पसलिलश्च । तत्प्रभातेऽत्रागमिष्यामः।' एवमुक्त्वा स्वगृहं गताः । मत्स्याश्च विषण्णवदना मिथो मन्त्रं चक्रुः । ततो मण्डूक आह-भोः शतबुद्धे ! श्रुतं धीवरोक्तं भवता, तत्किमन युज्यते कर्तुम् ?' पलायनमवष्टम्भो वा यत्कर्तुं युक्तं भवति तदादिश्यतामद्य ।' तच्छ्रुत्वा सहस्रबुद्धि प्रहस्य आह- 'भो मित्र ! मा भैषीः, यतो वचनश्रवणमात्रादेव भयं न कार्य उक्तञ्च- सर्पाणां च खलानां च सर्वेपां दुष्टचेतसाम् । अभिप्राया न सिध्यन्ति तेनेदं वर्तते जगत् ।। ४५ ॥ सहस्रबुद्धयोः । वेलायां सरोवरकूले । 'वेला काले च सीमायामधेः, कूल- विकारयो रिति मेदिनी। गोष्टीसुखं काव्यालापगोष्ठीसुखम् । गोष्ठीगतानां कूले सम्भूयोपविष्टाना । जालहस्ता:-जालपाणयः। धीवरा:-मत्स्यवधाजीवाः । व्यापादित =हते । मस्तके शिरसि । धृतैः-स्थापितैः-उपलक्षिता । इत्थंभूतलक्षणे तृतीया । अस्त- मनवेलायां सूर्यास्तसमये। सलिलाशय-सरोवरं। मिथः परस्परं । बहुमत्स्य.= मत्स्यवहुलः । ह्रदः-जलाशयः । स्वल्पसलिल. अल्पजल | विषण्णानि वदनानि येषान्ते विषण्णवदनाः-विच्छायमुखाः, मन्त्र विचारम् । चक्रुः विदधुः । पलायनं देशान्तरगमनम् । अवष्टम्भः धृत्याऽत्रैवावस्थानम्। आदिश्य- ताम्-उपदिश्यताम् । श्रवणमात्रादेवधीवराणा वचनस्य श्रवणमात्रेण । खलानां दुर्जनानां । दुष्टचेतसां= पापिनाम् । अभिप्रायाः मनोरथाः,

  • वर्तते जीवति ॥ ४५ ॥