पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४

  • पञ्चतन्त्रम् *

[१ मित्र- द्विजिह्वाः क्रूरकर्माणोऽनिष्टाश्छिद्रानुसारिणः । दूरतोऽपि हि पश्यन्ति राजानो भुजगा इव ।। ७० ।। स्वल्पमप्यपकुर्वन्ति येऽभीष्टा हि महीपतेः । ते वह्नाविव दह्यन्ते पतङ्गाः पापचेतसः ॥ ७१ ॥ दुरारोहं पदं राज्ञां सर्वलोकनमस्कृतम् । स्वल्पेनाप्यपकारेण ब्राह्मण्यमिव दुष्यति ।। ७२ ॥ दुराराध्या श्रियो राज्ञां दुरापा दुष्परिग्रहाः । तिष्ठन्त्याप इवाधारे चिरमात्मनि संस्थिताः ।।७३ ।। दमनक आह-सत्यमेतत् । किन्तु- यस्य यस्य हि यो भावस्तेन तेन समाचरन् । अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत् ।। ७४ ।। भर्तुश्चित्तानुवर्तित्वं सुवृत्तं चाऽनुजीविनाम् । राक्षसाश्चापि गृह्यन्ते नित्यं छन्दाऽनुवर्तिभिः।। ७५ ।। द्विजिहा =जिहाद्वययुता , कूटभाषिणश्च । अनिष्टा =अनिष्टकारका । छिद्रा- नुसारिण =विलेशया , दोपदर्शिनश्च । 'छिद्रं दोपे च विवरें' इति हैमः ॥ ७० ॥ राज्ञ प्रिया अपि यदि स्वल्पमपि राज्ञोऽपकुर्वन्ति तदा पतङ्गा वाविव दह्यन्ते-स्वयमेव विनश्यन्ति । 'राजकोपानले' इति शेष ॥ ७१ ॥ ब्राह्मण्यं ब्रह्मतेज , दुष्यति-विकारं भजते, दूषयतीति वा ॥ ७२ ॥ राज्ञा श्रिय =राजलक्ष्म्य । दुरापा =दुर्लभाः। दुष्परिग्रहाः दुखेन रक्ष- णीया । आत्मनि संस्थिता -स्वयं निरीक्षिता., स्ववशे स्थापिता एव च-जला- धारे जलमिव । चिरं तिष्ठन्ति । यथा जलाधार एव जलं चिरं तिष्ठति, नान्यत्र, एवं विनीत एव राजनि श्रीस्तिष्ठति नान्यत्रत्याशय ॥ ७३ ॥ अनुप्रविश्य तदनुकूलाचरणं कृत्वैव । क्षिप्रं शीघ्रम् ॥ ७४ ॥ भर्तु =स्वामिन । चित्तानुवर्त्तित्वम् मनोऽनुकूलकर्तृत्वम् । अनुजीविना= सेवकाना । सुवृत्तं-सुशीलम् । राजवशीकरणसाधनम् । छन्दमनुवर्त्तन्ते तच्छीलै- छन्दानुवर्तिभि =अभिप्रायपरिपालकै । 'अभिप्रायश्छन्द आशय' इत्यमरः । (छन्दानुवर्ती खुशामदी' 'चापलूस')॥ ७५ ॥ १ तेन तेन हित नरम् । .