पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 कारकम् ] * अभिनवराजलक्ष्मीविराजितम् * ४०१ एवमुक्त्वा भूयोऽपि स चक्रधरमाह-'भो मित्र ! प्रेषय मां, येन स्वगृहं गच्छामि। चक्रधर आह-'भद्र ! आपदर्थे धनमित्रसङ्ग्रहः क्रियते। तन्मामेवंविध त्यक्त्वा कयास्यति ? । उक्तश्च- 'यस्त्यक्त्वा सापदं मित्रं याति निष्ठुरतां वहन् । कृतनस्तेन पापेन नरके यात्यसंशयम्' ।। ८२ ॥ सुवर्णसिद्धिराह-भोः सत्यमेतद्यदि गल्यस्थाने शक्तिर्भ- वति । पतत्पुनर्मनुष्याणामगम्यस्थलम् । नास्ति कस्यापि त्वा- मुन्मोचयितुं शक्तिः। अपरं-यथा यथा चक्रभ्रमवेदनया तव सुखविकारं पश्यामि, तथा तथाऽहमेतजानामि यद्-'द्राग् गच्छामि मा कश्चिन्ममाप्यनर्थो भवेदिति। यतः- यादृशी वदनच्छाया दृश्यते तव वानर !। विकालेन गृहीतोऽसि, य. परैति स जीवति ॥ ८३ ।। शत्रुः चन्द्रभूपति । हत नाशित । कृतं मित्रं-राक्षसोऽहं सन्तर्पणेन मित्रता नीतः । हारिता=न दत्ता । नालेन-पद्मनालेन । तोयं-जलम् ॥ ८१॥ आपदर्थे विपत्तित परिरक्षणार्थम् । धनस्य मित्राणाञ्च सङ्ग्रह. स्वीकरणम् । एवंविधं भ्रमच्चकपीडितम् । सापदम् आपत्तिसहितम् । कृतघ्नो भूत्वाऽसंशय नरके यातीति सम्बन्धः ॥ ८२ ॥ गम्यस्थाने गन्तु योग्याया भुवि। 'वर्तमानं स्वमित्र मोचयितु'मिति शेष । शक्ति =स्वमित्रस्य मोक्षणे शक्तिर्भवति। तदा सापद मित्रं त्यक्त्वा गच्छन् कृतघ्नो भवति इत्यर्थ । एतत्-यत्र भवान् वर्तते । चक्रभ्रमवेदनया चक्रभ्रमणजन्य पीडया। मुखविकार-मुखरूप्यम्। जानामि हृदि चिन्तयामि। द्राक्-त्वरि- तम् । अनर्थ =विपत्ति। वदनच्छाया-मुखकान्ति । विकालेन-तन्नाना राक्षसेन । विपत्तिविशेषग च । परैति-पलायते । स एव जीवति स एव विपदा मुच्यते, नान्यः ॥ ८३ ॥ १ 'गम्यस्थाने स्थितं शक्तियुक्तन्न्यजति' । इति लिखिनपुग्नकस्थ, पाठः शोमन ।