पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.४१२

  • पञ्चतन्त्रम् *

[५ अपरीक्षित- वसेव वर्तितव्यम् । अथ एवमेव यो वर्तते स त्वमिव विनश्यति । तथा च-एकोदराः पृथग्रीवा अन्योन्यफलभक्षिणः । असंहता विनश्यन्ति भारुण्डा इव पक्षिणः ।। ८६ ।। चक्रधर आह-'कथमेतत् ? । सोऽब्रवीत्- १३ एकोदरभारुण्डकथा कस्मिश्चित्सरोवरे भारुण्डनामा पक्षी एकोदरः पृथग्त्रीवः 'प्रतिवसति स्म । तेन च समुद्रतीरे परिभ्रमता किंचित्फल ममृ. तकल्पं तरङ्गाक्षिप्तं सस्प्राप्तम्। सोऽपि भक्षयन्निमाह-'अहो ! यहूनि मयाऽमृतप्रायाणि समुद्रकल्लोलाहृतानि फलानि भक्षि- तानि । परमपूर्वोऽस्याऽऽस्वादः। तत्कि पारिजातहरिचन्दनतरु. सम्भवम् १, किं वा किंचिदमृतमयफलमव्यक्तेनापि विधिनाss. पतितम् !' एवं तस्य ब्रुवतो द्वितीयमुखेनाऽभिहितम्-भोः, यद्येवं - तन्ममापि स्तोकं प्रयच्छ, येनाहमपि जिह्वासौख्यमनुभवामि ।' ततो विहस्य प्रथमवक्त्रेणाभिहितम्-'आवयोस्तावदेकमु. दरम् , एका तृप्तिश्च भवति । ततः किं पृथग्भक्षितेन ?। वरमनेन शेषेण प्रिया तोष्यते'। हतेन अमिलितेन-स्वेच्छाचारिणा । एकमुदर येषान्ते-एकोदरा.। पृथक् ग्रीवा येपान्ते-पृथग्ग्रीवा. भिन्नकण्ठमाला.,अत एव भिन्नवदनाः। अन्योन्यं पृथक् फलानि भक्षितुं शीलं येषान्ते-अन्योन्यफलभक्षिणः परस्परविरुद्धफलमक्षणशीलाः॥८६॥ सरोवरे महति जलाशये।पृथग्ग्रीवः द्विमुख. अमृतकल्पम् अमृतमधुरम्। तरङ्गैः आक्षिप्तं-तरङ्गाक्षिप्त जलतरङ्गानीतम् । समुद्रकल्लोलाहृतानि वारिधितरजा- नीतानि । परं-किन्तु । आस्वाद्यतेऽसौ आस्वादः माधुर्यादिरसः । ( स्वाद )। पारिजातहरिचन्दनतरुसम्भवं देवतरुसमुद्भूतम् । अमृतमयफलम् साक्षादमृतस्यैव फलम् । अव्यक्तनापि-विधिना=अलक्षि. तेन केनचिन्मार्गेण, भाग्येन वा । अदृष्टवशात् । तस्य भारुण्डस्य । स्तोकम् = . १ 'भारण्डाः' इति पा० ।