पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[५ अपरीक्षित सुवर्णसिद्धिराह-कथमेतत् ?' । सोऽब्रवीत्,- १४. पान्थब्राह्मणकर्कटकथा कस्मिश्चिदधिष्ठाने ब्रह्मदत्तनामा ब्राह्मण: प्रतिवसति स्म । -सच प्रयोजनवशात्रामंप्रस्थितः स्वमात्राऽभिहितोयत्-'वत्स!, कथमेकाकी व्रजसि ? । तदन्विष्यतां कश्चिद् द्वितीयः सहायः ।' स आह-'अम्व.! मा भैपीः, निरुपद्रवोऽयं मार्गः, कार्य- चशादेकाकी गमिप्यामि ।' अथ तस्य तं निश्चय ज्ञात्वा समी- पस्थवाप्याः सकाशात्कर्कटमादाय मात्राऽभिहित --'वत्स ! अवश्यं यदि गन्तव्यं तदेप कर्कटोऽपि सहायो भवतु। तदेनं गृहीत्वा गच्छ। सोऽपि मातुर्वचनादुभाभ्यां पाणिभ्यां तं संगृह्य कर्पूरपुटि- का मध्ये निधाय, पात्रमध्ये संस्थाप्य, शीघ्रं प्रस्थितः । अथ गच्छन्ग्रीष्मोष्मणा सन्तप्तः कश्चिन्मार्गस्थवृक्षमासाद्य तत्रैव प्रसुप्तः। अत्रान्तरे वृक्षकोटरानिर्गत्य सर्पस्तत्समीपसागतः। स च कर्पूरसुगन्धसहजप्रियत्वात्तं परित्यज्य वस्त्रं विदार्या- भ्यन्तरगतां कर्पूरपुटिकामतिलौल्यादभक्षयत् । सोऽपि कर्कट- स्तत्रैव स्थितः सन् सर्पप्राणानपाहरत् । ब्राह्मणोऽपियारत्प्रवुद्धः पश्यति तावत्समीपे मृतः कृष्णसो लिजपाचे कर्पूरपुटिकोपरि स्थितस्तिष्ठति । तं दृष्ट्वा व्यचिन्तयत्-'कर्कटेनाऽयं हतः' इति । प्राणा. ॥ ८८ ॥ अधिष्ठाने नगरे। प्रयोजनवशात् -आवश्यक कार्यप्रसङ्गात् । प्रस्थितःचलित । अन्विप्यताम् अन्विष्य सहैव नीयताम् । द्वितीय =अपर सहायः । समीपस्थवाप्या निकटवर्तिवापीत । मात्रा-जनन्या। कर्कट -कुलीरः। सहायः द्वितीय. सहचर । तं-कर्कटम् । पुटिका-अत्प- सम्पुट (दिव्यी)। ग्रीमोमणा=ग्रीप्म घर्मेण ! आसाद्य-लब्ध्वा वृक्षकोटरात्-वृक्षकुक्षिकुह- -रात् । स.-सर्पः । कर्पूरसुगन्ध. सहज प्रियो यस्य तस्य भावस्तत्त्वं, तस्मात् अर्पूरसुगन्धनिसर्गप्रियतया। त==पान्ध ब्रह्मदत्तम् । अभ्यन्तरगतां मध्यस्थिताम् । अतिलोल्यात्-अलौकण्ठ्यात् । तत्रैव- ,