पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

20 Ava~~

  • पञ्चतन्त्रम् *

[१ मित्र- तदेवं ज्ञात्वा स्वामिना धैर्याऽवष्टम्भ. कार्यः, न शब्द- मात्रा तव्यम् । पूर्वमेव मया ज्ञातं पूर्णमेतद्धि मेदसा। अनुप्रविश्य विज्ञातं यावच्चर्म च दारु च ॥ ११७ ।। पिङ्गलक आह-'कथमेतत् ?' । सोऽब्रवीत्- २. गोमायुदुन्दुभिकथा कश्चिद्गोमायुर्नाम शृगालः क्षुत्क्षामकण्ठ इतस्तत आहार- क्रियार्थ परिभ्रमन्वने सैन्यद्वयसभामभूमिमपश्यत्। तस्याञ्च दुन्दुभेः पतितस्य वायुवशाल्लीशाखार्हन्यमानस्य शब्दमणोत् । अथ क्षुभितहृदयश्चिन्तयामास-'अहो ! विनष्टोऽस्मि, तद्या- वनाऽस्य प्रोच्चारितशब्दस्य दृष्टिगोचरे गच्छामि, तावदन्यतो व्रजामि । अथवा नैतधुज्यते सहसैव- भये वा यदि वा हर्प सम्प्राप्ते यो विमर्शयेत् । कृत्यं न कुरुते वेगान्न स सन्तापमाप्नुयात् ॥ ११८॥ तत्तावजानामि कस्याऽयं शब्दः १ । इत्थं धैर्यमालम्ब्य विम- र्शयन् यावन्मन्दं मन्दं गच्छति तावदुन्दुभिमपश्यत् । स च तं परिज्ञाय समीपं गत्वा स्वयमेव कौतुकादताडयत् । भूयश्च हर्षादचिन्तयत्-'अहो ! चिरादेतदस्माकं महद्भोजनमापतितं, तन्नूनं प्रभूतमासमेदोऽसृग्भिः परिपूरितं भविष्यति ।' ततः परुष- चर्मावगुण्ठितं तत्कथमपि विदायैकदेशे छिद्रं कृत्वा संहृष्टमना मध्ये प्रविष्टः । परं चर्मविदारणतो दंष्ट्राभङ्गः समजनि । यावत् साकल्येन । क्षुधा क्षाम -क्षीण -शुष्क कण्ठो यस्यासौ-भुत्क्षाम- कण्ठ =क्षुधातृषार्त्त । दुन्दुभे वाद्यभेदस्य ( 'नगाड़ा' )। वल्लीभि =लताभि, शाखाप्रैश्च । हन्यमानस्य-ताड्यमानस्य । विनष्ट =मृतोऽस्मि नूनम् । प्रकर्पण उच्चारित. शब्दो येनासौ तस्य-गब्दायमानस्य सत्त्वस्य । विमर्शयेत् विचारयेत् । वेगात्कृत्यं न कुरुते ॥११८॥ प्रभूतै =बहुलै । असृक्-रुधिरम् । परुषेण-कठिनेन चर्मणा, अवगुण्ठितं-समाच्छादितं, तत्-वाद्यभाण्डं। दंष्ट्राभङ्ग =दन्तभङ्ग । ('दाढ'