पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-

  • पञ्चतन्त्रम् *

[१ मित्र- आह-कि स्वामिपादानामग्रेऽसत्यं विज्ञाप्यते ! । उक्तञ्च- अपि स्वल्पमसत्यं यः पुरो वदति भूभुजाम् । देवानाञ्च-विनश्येत स द्रुतं सुमहानपि ।। १३० ।। तथाच- सर्वदेवमयो राजा मनुना सम्प्रकीर्तितः ।। तस्मात्तं देववत्पश्येन्न व्यलीकेन कहिंचित् ।। १३१ ।। सर्वदेवमयस्याऽपि विशेपो नृपतेरयम् । शुभाऽशुभफलं सद्यो नृपाद्देवाद्भवान्तरे ।। १३२ ॥ पिङ्गलक आह-'अथवा सत्यं दृष्टं भविष्यति भवता, न दीनोपरि महान्तः कुप्यन्ति, अतोन त्वं तेन निपातितः। यतः- तृणानि नोन्मूलयति प्रभञ्जनो मृदूनि नीचैः प्रणतानि सर्वतः स्वभाव एवोन्नतचेतसामयं 'महान्महत्स्वेव करोति विक्रमम्' ।।१३३॥ अपिच- गण्डस्थलेषु मद्वारिपु वद्धरागमत्तभ्रमभ्रमरपादतलाहतोऽपि । कोपं नगच्छति नितान्तवलोऽपि नागस्तुल्ये बले तु बलवान्परिकोपमेति।। दमनक आह-'अस्त्वेवं स महात्मा, वयं कृपणाः, तथापि हैं 2 )। स्वामिपादाना-मान्याना प्रभूणा । देवाना=देवताना, भूभुजा-राज्ञा च पुरतोऽल्पमपि असत्यं वदन् द्रुतं शीघ्र, विनश्यतीत्यर्थ ॥ १३०॥ तं-राजानं, व्यलीकेन वैपरीत्येन, दुष्टभावेन ॥ १३१ ॥ नृपात्सब इहैव च फलं, देवात्तु भवान्तरे-जन्मान्तरे, नरकस्वर्गादिरूपं फलं भवति । एवञ्च देवादपि महान् भूपतिरित्याशय ॥ १३२॥ दीनोपरि तुच्छजनोपरि । तेन महता तेन सत्त्वेन । प्रभञ्जन =चायु , सर्व- तोभावेन प्रणतानि तृणानि न उन्मूलयति, स्तब्धान् वृक्षास्तु नाशयति । उन्नत- चेतसां महताम् । महत्सु विक्रमदर्शनं स्वभाव -प्रकृति ॥ १३३ ॥ गण्डस्थले प्रवहत्सु मदवारिझरेपु बद्धो राग =स्पृहा ग्रैस्तेपा मत्ताना ममता भ्रमराणा-पाढ- तलैराहतोऽपि ताडितोऽपि, नितान्तवलोऽपि-महावलोऽपि नाग =कुञ्जरो न कोपं गच्छतिभ्रमरोपरि न क्रुध्यति । वलवान् हि तुल्यवल एव कोपमधिगच्छती- त्याशय ॥१३४ ॥ महात्मा-वलीयान् । कृपणा दीना । योजयामि-त-