पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०

  • पञ्चतन्त्रम् *

[१ मित्र- पर्यन्तो लभ्यते भूमेः समुद्रस्य गिररपि । न कथञ्चिन्महीपस्य चित्तान्तः केनचित्कचित् ।। १३६ ॥ तत्वमत्रैव तिष्ठ, यावदहं तं समये धृत्वा ततः पश्चात्त्वामा- नयामीति । तथाऽनुष्ठिते दमनकः पिङ्गलकसकाशं गत्वेदमाह- 'स्वामिन् !न तत्प्राकृतं सत्त्वम् , स हि भवतोमहेश्वरस्य वाहन- भूतो वृषभः-इति। मया पृष्ट इदमूचे-महेश्वरेण परितुष्टेन कालिन्दीपरिसरेशष्पाग्राणि भक्षयितुं समादिष्टः । कि बहुना,- मम प्रदत्तं भगवता क्रीडार्थ वनमिदम् ।' पिङ्गलक आह-सभ- यम्-'सत्य ज्ञातं मयाऽधुना, न देवताप्रसादंविना शष्पभोजिनो व्यालाकीर्णे एवंविधे वने नि'शवं नर्दन्तो भ्रमन्ति । ततस्त्वया किमभिहितम् ? ।' दमनक आह-स्वामिन् ! एतदभिहितं मया- यदेतद्वनं चण्डिकावाहनभूतस्य मत्स्वामिनः पिङ्गलकनानः सिहस्य विषयीभूतम् , तद्भवानभ्यागतः प्रियोऽतिथिः । तत्तस्य सकाशं गत्वा भ्रातृस्नेहेनैकत्र भक्षणपानविहरणक्रियाभिरेक- स्थानाश्रयेण कालो नेय.'-इति । तस्तेनापि सर्वमेतत्प्रतिपन्नम् । > वन्यजन्तव । साधुसमाचार सज्जनोचितव्यवहारशील । प्रसाद =अनुग्रह । एपा वक्ष्यमाणा 'राज्ञो विश्वासो न कार्य' इत्येवंरूपा । पर्यन्त = प्रान्तभाग, चित्तान्त =हृद्गतो भाग । क्वचित् कुत्रचिदपि ॥ न प्राकृतं न साधारणं, किन्तु दिव्यं, तदेवाह-स हीति । स =सत्त्वं । वृषभ । विवेयगतलिझोपादानात्पुंस्त्वमत्र। मया दमनकेन । पृष्ट =गर्जनकारणं पृष्ट स वृपभ । इदं वक्ष्यमाणम् । परि- तुष्टेन प्रसन्नेन । कालिन्दीपरिसरे यमुनाकूले। शष्पाग्राणि कोमलघासाङ्कुरा- ग्राणि । कि वहुना भाषणेन-अस्य वनस्य प्रभुरहमेव शम्भुना कृतोऽस्मि 'इदमाहेति पूर्वेण सम्बन्ध । शप्पभोजिनः घासभोजिनो बलीव दय । व्यालाकीर्णे हिस्रजन्तुभि परिवृते । एवंविधे अतिगर्ने। तत =वृषभवचनश्रवणानन्तरं। चण्डिकावाहन- भूतस्य दुर्गावाहनस्य सिहस्य। विपयीभूतम्-अधिकारान्तर्गतम् । तस्य-सिहस्य । सकाशं समर्म । कालो नेय =समयो यापनीय । प्रतिपन्नं स्वीकृतम्। उक्तञ्च= १ समये धृत्वा अभयवचनमादाय । 'दृष्ट्'ति पाठान्तरम् ।