पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२

  • पञ्चतन्त्रम् *

[१ मित्र- तथाच- अपि संमानसंयुक्ताः कुलीना भक्तितत्पराः । वृत्तिभङ्गान्महीपालं त्यजन्त्येव हि सेवकाः ॥ १६४॥ अन्यच्च- कालातिक्रमणं वृत्तों न कुर्वीत भूपतिः । कदाचित्तं न मुञ्चन्ति भर्त्तिता अपि सेवकाः ॥ १६५ ।। तथा-न केवलं सेवका इत्थंभूताः-यावत्समस्तमप्येतजगत् परस्परं भक्षणार्थ सामादिभिरुपायैस्तिष्ठति । तद्यथा- देशानामुपरि मापा आतुराणां चिकित्सकाः । वणिजो ग्राहकाणां च मूर्खाणामपि पण्डिताः ॥ १६६ ॥ प्रमादिनां तथा चौरा भिक्षुका गृहमेधिनाम् । गणिकाः कामिनां चैव सर्वलोकस्य शिल्पिनः ।। १६७ ॥ सोमाद्यैः सन्जितैः पाशैः प्रतीक्षन्ते दिवानिशम् । उपजीवन्ति शक्त्या हि जलजा जलजानिव ।। १६८ ॥ रोगेण । बाधिता पीडिता । एका दिशम् एकस्मिन् प्रदेशे । अण्डजाः पक्षिण- ॥१६३॥ संमानसंयुक्ता =संमानिता अपि । वृत्तिभङ्गात् जीविकाविनाशात् । वृत्ते =जीविकाया ('पेटिया' 'तनखाह' )। कालातिक्रमणं समयोल्लहनं ( 'कई महीने तक तनखाह न देना') भर्सिता तर्जिता ॥ १६५ ॥ इत्थम्भूता =भृत्या एव जीविकार्थमेव राजानं सेवन्ते इति, न किन्तु-यावत् दृश्यमानम् , इदं जगत-संसार । परस्परम् अन्योन्यं । भक्षणार्थ वच्चयित्वा स्वोदरपूरणार्थमेव । सामादिभिः-साम-दान-दन्ड-भेदाख्यैरुपायै सज्जितं तिष्ठतीत्यर्थ । देशानां ग्रामनगरादिनिवासिनाम् उपरि । क्षमापा =राजान-उपजीवनाय प्रतीक्षन्ते अवसर प्राप्य स्वजीवनाय धनं गृह्णन्ति । आतुराणा-रोगा नामुपरि। चिकित्सका = वैद्या । 'प्रतीक्षन्ते' इति शेष । वणिज =वैश्या । प्रमादिनाम् अव- धानशून्याना । चौरा =तरस्करा । गृहमेधिना गृहस्थानाम् । शित्पिन =स्वर्ण- कारादय । सामादिना सामदानदण्डभेदादिना। सज्जितै कल्पितै । पायो - १ 'क्ष्माभृत्'। २ 'सामादि।