पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[१ मित्र- कौलिकोऽपि तच्छुत्वा भार्यामाह-'प्रिये ! गच्छ त्वमतिथि- मादाय गृहं प्रति, पादशौचभोजनशयनादिभिः सत्कृत्य त्वं तत्रै व तिष्ठ, अहं तव कृते प्रभूतं मद्यमानेष्यामि ।' एवमुक्त्वा प्रस्थितः। सापि भार्या पुंश्चली तमादाय प्रहसितवदना देवदत्तं मनसि च्यायन्ती गृहं प्रति प्रतस्थे । अथवा साध्विदमुच्यते- दुर्दिवसे घनतिमिरे दुःसञ्चारासु नगरवीथीषु । पत्युर्विदेशगमने परमसुखं जघनचपलायाः ॥ १८४ ॥ तथाच- पर्यवं स्वास्तरणं पतिमनुकूलं मनोहरं शयनम् । तृणमिव लघु मन्यन्ते कामिन्यश्चौर्यरतलुब्धाः ॥१८५।। तथाच- केलिं प्रदहति लज्जा, शृङ्गारोऽस्थीनि, चाटवः कटवः । बन्धक्याः परितोपो न किचिदिष्टे भवेत्पत्यौ ॥ १८६॥ कुलपतनं जनगहरे बन्धनमपि जीवितव्यसन्देहम् । अङ्गीकरोति कुलटा सततं परपुरुपसंसक्ता ॥ १८७ ॥ अथ कौलिकभार्या गृह गत्वा देवशर्मणे गताऽऽस्तरणां भग्नां च खट्वां समयदमाह-'भो भगवन् | यावदहं स्वसखीं सूनृता-मधुरा । 'मधुरं सूनृतं प्रिये इत्यमर । सता-सज्जनाना । हर्म्यपु-गृहेषु । न उच्छिद्यन्ते न दूरीभवन्ति ।अतिथे स्वागतेन अग्नयस्तृप्यन्ति । शतक्रतु %3D इन्द्र ।। १८३ ॥ प्रभूत वहुलम् । पुंश्चली असतो । देवदत्तं स्वप्रियं कंचन पुरुषविशेपम्। दुर्दिवसे मेघच्छन्नेऽहि । घनतिमिरे-निविडान्धकारे । वीथी-रथ्या। ('गली') जघनचपलाना=कुलटानाम् ॥१८४॥ स्वास्तरण-मृदुधवलपरिच्छदयुक्तम् । शयनं= शय्या, रतिमन्दिर वा । चौर्यरतं-जारसम्भोग ॥ १८५ ॥ बन्धक्य -कुलटा । कुलपतन कुलभ्रंशं । जीवितव्यसन्देह-जीवनसंशयम् ॥ १८७॥ गतास्तरणाम् आस्तरणरहिताम् । ( विछावन के विना)। सम्भाव्य-तया सहाऽऽलापादिक १ 'पर्यवेवास्तरण' मिति पा० ।