पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद.]

  • अभिनवराजलक्ष्मीविराजितम् *

3 कृते विनिश्चये पुंसां देवा यान्ति सहायताम् । विष्णुश्चक्रं गरुत्मांश्च कौलिकस्य यथाऽऽहवे ॥ किञ्च- सुप्रयुक्तस्य दम्भस्य ब्रह्माऽप्यन्तं न गच्छति । कौलिको विष्णुरूपेण राजकन्यां निषेवते ॥२१८ ॥ करटक आह-कथमेतत् ? । सोऽब्रवीत्- ५ मिथ्याविष्णुकौलिककथा । कस्मिश्चिदधिष्ठाने कौलिकरथकारौ मित्रे प्रतिवसत स्म । तत्र च तो बाल्यात्प्रभृति सहचारिणौ परस्परमतीव स्नेहपरौ सदैकस्थानविहारिणौ कालं नयतः। अथ कदाचित्तत्राऽधिष्ठाने कस्मिंश्चिद्देवाऽऽयतने यात्रा- महोत्सवः संवृत्तः। तत्र च नटनर्तकचारणसङ्कुले नानादेशागत- जनावृते तो सहचरौ भ्रमन्तौ काञ्चिद्राजकन्यां करेणुकाऽऽरूढां सर्वलक्षणसनाथां कञ्चकिवर्षधरपरिवारितां देवतादर्शनार्थ समायातां दृष्टवन्तौ। अथाऽसौ कौलिकस्तां दृष्ट्वा विपादित इव दुष्टग्रहगृहीत इव कामशरैर्हन्यमानः सहसा भूतले निपपात । अथ तं तवस्थमव- लोक्य रथकारस्तदुःखदुःखितः-आप्तपुरुषैस्तं समुत्क्षिप्य स्वगृह- दम्भस्य मायाया । निपेवते-उपभुढे ॥ २१८ ॥ अधिष्टाने नगरे। 'अधिष्टानं रथस्याङ्गे प्रभावेऽध्यासने पुरे-इत्यजय. । यात्रामहोत्सव =दर्शनयात्रोत्सव [ 'मेला'] । नटा -भरता । नर्तका =नृत्योप- जीविन । चारणा =स्तुतिपाठका । तै सङ्कुले व्याप्ते । करेणुका हस्तिनी । सर्व- लक्षणसनाथा-सर्वलक्षणोपेताम्। कञ्चुकिभि =अन्त पुरचरै? । वर्पवरै क्लीवै. परिवारिता सहिताम् । विपादित =विषपीडित । दुष्टग्रहगृहीत =पीशाचादिपीडित इव । सहसा अकस्मात् । तदवस्थं भूमौ पतितम् । तं-स्वसुहृदम् । तद्दु ख- दुखित =स्वमित्रकौलिकदु खेन दुखित सन् । १ इय कथाऽश्लीलतया काशिकमध्यमपरोक्षादिपाठयाशवहिर्भूता ।