पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेदः].

  • अभिनवराजलक्ष्मीविराजितम् *

७९ आह च-'आः पापे कुलकलनकारिणि ! किमेवं शीलखण्डनं कृतम्'? । कोयं कृतान्ताऽवलोकितस्त्वत्सकाशमभ्यति ?, तत्कथ्यतां ममाग्रे सत्यम् । इति कोपा टोपविशङ्कटं वदत्यां सातरि राजपुत्री भयलजा. नताऽऽननं प्रोवाच-'अम्ब ! साक्षान्नारायणः प्रत्यहं गरुडारूढो निशि समायाति, चेदसत्यं मम वाक्यं, तत्स्वचक्षुपा विलोकयतु निगूढतरा निशीथे भगवन्तं रमाकान्तम् ।' तच्छ्रुत्वा सापि प्रहसितवदना पुलकाऽङ्कितसर्वाङ्गी सत्वरं गत्वा राजानमूचे-'देव ! दिष्टया वर्धसे! नित्यमेव निशीथे भग वान्नारायणः कन्यकापार्श्वेऽभ्येति । तेन गान्धर्वविवाहेन सा विवाहिता। तदद्य त्वया मया च रात्रौ वातायनगताभ्यां निशीथे द्रष्टव्य., यतो न स मानुपैः सहालापं करोति ।' तच्छ्रुत्वा हर्पितस्य राज्ञस्तद्दिनं वर्षशतप्रायमिव कथञ्चिजगास । ततस्तु रात्री निभृतोभूत्वा राशीसहितोराजा वातायनस्थो गगनासक्तदृष्टिवित्तिष्ठति, तावत्तस्मिन् समये गरुडारूढं तं शङ्खचक्रगदापमहस्तं यथोक्तचिह्नाङ्कितं व्योम्नोऽवतरन्तं नारायण- मपश्यत् । ततः सुधापूरप्लावितमिवाऽऽत्मानं मन्यमानस्तामु. वाच-'प्रिये! नास्त्यन्यो धन्यतरो लोके मत्तस्त्वत्तश्च, य- विलिखितशरीरवयवां-नखक्षतावलिविलिखितस्तनादिप्रदेशाम्। शीलखण्डनं- चारित्रग्रंश । कृतान्तावलोकित =मृत्युपरवश । इति इत्थं, कोपस्याटोपेन-आवे- शेन, विशङ्कट-विपुलं, भीपणञ्च । 'विगट पृथु वृहद्विशाल विपुलं महदित्य- मर । यथा स्यात्तथेति क्रियाविशेषणम् । भयेन लजया च नतमानन यस्मिन् कर्मणि, तद्यथा स्यात्तथा-प्रोवाच जगाद । निगूढतरा-प्रच्छन्नतरा भूत्वा । निशीथे अर्धरात्रे दिष्टया सौभाग्येन । वर्धसे सौभाग्यवानसीत्यर्थ । तेन-विष्णुना । सातव कन्या । वातायनगताभ्या गवाक्षस्थिताभ्यास । स-भगवान्नारायण । निभृता-सुगूढ । गगनासक्तदृष्टि =आकाशतलप्रहितलोचन । तस्मिन्स- मये-निशीथे। यथोक्तचिह्नाङ्कितं शङ्खचक्राद्यलङ्कृतम्। व्योम्न =आकाशात् । सुधा-