तादृशं भुवि कुशासनभाजं धारिताक्षवलय करपद्मे ।
नासिकाग्रनिहिताक्षमवेक्ष्य व्यस्मयन्त सुरविभ्रमवत्यः ॥ ५९ ॥
विभ्रमैरपि निजैरविकार्यं तं विरागमिव मूर्तमवेक्ष्य ।
शापदानचकिता हरिणाक्ष्यस्तस्य किंचिदपचक्रमुरग्रात् ॥ ६० ॥
हृष्यतः शतमखस्य नियोगात्सिद्धचारणगणेन तदानीम् ।
पातिताजनि मुनेरुपरिष्टात्पारिजातकुसुमोत्करवृष्टिः ॥ ६१ ॥
तावदम्बुदकदम्बगभीरा दध्वनुस्त्रिदिवदुन्दुभयश्च ।
या विमोहयितुमागतवत्यस्ताभिरेव ननृते च वधूभिः ॥ ६२ ॥
- तस्यातिदुष्करमवेक्ष्य तपः प्रसन्नो
- दातुं वरं तदुचितं दययाथ तस्मै ।
- कैलासगौरमधिरुह्य वृषं महान्त-
- मर्धेन्दुमौलिरुमया सममाविरासीत् ॥ ६३ ॥
- तस्यातिदुष्करमवेक्ष्य तपः प्रसन्नो
इति श्रीयज्ञरामदीक्षितपुत्रस्य रामभद्रयज्वनः कृतौ पतञ्जलिचरिते
द्वितीयः सर्गः ॥
तृतीयः सर्गः ।
अथ वीक्ष्य स शैलकन्यया सहितं चन्द्रकलाधरं पुरः ।
रभसादुदतिष्ठदासनात्प्रणमन्नञ्जलिना पतञ्जलिः ॥ १ ॥
तदुपागमहर्षविस्मयौ स्तिमितं यद्यपि तं वितेनतुः ।
स तथापि चकार दण्डवत्प्रणिपातं भुवि भक्तियन्त्रितः ॥ २ ॥
प्रणिपत्य समुत्थितस्तदा मुदितो मूर्ध्नि कृताञ्जलिर्मुनिः ।
तरुणेन्दुवतंसमादरात्तमुपश्लोकयितुं प्रचक्रमे ॥ ३ ॥