पृष्ठम्:पतञ्जलिचरितम्.djvu/२९

पुटमेतत् सुपुष्टितम्
४ सर्गः]
२५
पतञ्जलिचरितम् ।

नर्तनाय गिरिशे कृतत्वरे चत्वरे महति हेमसंसदः ।
मास्तु शब्द इति वेत्रपाणिना सर्वतो जगदतर्जि नन्दिना ॥ ५९ ॥

सिद्धचारणकरान्तनिर्गलन्मुग्धपुष्पनिचये सभान्तरे ।
नन्दितर्जनवशात्कुतूहलादप्यतिष्ठदपसंकथो जनः ॥ ६० ॥

तत्र शंकरकटाक्षचोदितश्चारुमर्दलमवादयद्धरिः ।
य:[१]पयोद इति पुष्कराश्रितो नीलकण्ठनटनोचितध्वनिः ॥ ६१ ॥

कामजिन्नटनकारणेन वा भारतीकुचयुगभ्रमेण वा ।
तत्र तालयुगलीमथाददे पाणिपङ्कजयुगेन पद्मभूः ॥ ६२ ॥

रम्भया हृतरसे रदच्छदे वंशनालमवसज्य वासवः ।
वादनादपि विमोहयञ्जनानाददे किल न वासवस्थितिम् ॥ ६३ ॥

वादय द्रुतमितीव शंसता स्फाटिकाक्षवलयेन दक्षिणे ।
आश्रिता श्रवसि चारुवल्लकी वादनं व्यतनुत प्रियाविधेः ॥ ६४ ॥

आयतेन फणिना जटाभरं मध्यभागमिभचर्मकक्ष्यया ।
बध्नतः प्रियतमस्य नर्तितुं वीक्ष्य संभ्रममुमा स्मितं व्यधात् ॥ ६५ ॥

वीक्षणोचितममांसचक्षुषा नर्तनोत्सवमवेक्षितुं निजम् ।
शंभुना सकलदेहिनां तदा दिव्यमक्षि दिदिशे दयालुना ॥ ६६ ॥

सं[२]ददर्श सपदि भ्रमज्जटाताडितोडुपटलं तदा जनः ।
व्यालनूपुररणत्पदार्पणन्यञ्चितक्षिति नटेशनर्तनम् ॥ ६७ ॥



  1. ‘यः पयोद इव पुष्कराश्रितो’ क.
  2. ‘महीं पादाघाताद्व्रजति सहसा संशयपदं ।
    पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्णग्रहगणम् ।
    मुहुर्द्यौर्दौस्थ्यं यात्यनिभृतजटाताडिततटा
    जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥’
    इति महिम्नःस्तवे.