पृष्ठम्:पतञ्जलिचरितम्.djvu/३३

पुटमेतत् सुपुष्टितम्
५ सर्गः]
२९
पतञ्जलिचरितम् ।

पक्वमिति वदति यस्तं मम कृतिमध्याप्य मुच्यसे शापात् ॥ २३ ॥

व्याकरणमहाभाष्यं मत्कृतमखिलं मम प्रसादात्ते ।
स्फुरतु यथेष्टं याहीत्युक्त्वा तमृषिस्तिरोदधे सहसा ॥ २४ ॥

सूत्राणि योगशास्त्रे वैद्यकशास्त्रे च वार्तिकानि ततः ।
कृत्वा पतञ्जलिमुनिः प्रचारयामास जगदिदं त्रातुम् ॥ २५ ॥

गोनर्दाख्यं देशं प्राप्य नमस्कृत्य गोणिकां जननीम् ।
तस्यां त्रिदिवगतायां तस्थौ शेषः स्वयं स मुनिः ॥ २६ ॥

अथ स पतञ्जलिशिष्यो रक्षो भूत्वाधिरुह्य वटमेकम् ।
पचिरूपं निष्ठायां पृच्छन्पचितमिति वादिनोऽखादीत् ॥ २७ ॥

अथ बहुषु गतेषु वत्सरेषु द्विजमुपकण्ठमुपेयिवांसमेकम् ।
पु[१]नरपि तदपृच्छदेव रक्षो झटिति स पक्वमिति स्फुटं जगाद ॥ २८ ॥

द्विजगिरमवकर्ण्य कर्णरम्यामवतरति स्म वटात्तदाशु रक्षः ।
अयमुदयति शापमोक्षकालो मम गुरुणोक्त इति प्रहृष्यदन्त: ॥ २९ ॥

द्विजवर वद को भवान्कुतस्त्यस्तव किमिहागमने प्रयोजनं वा ।
कृतमतिरसि पाणिनीयशास्त्रे यदि च रुचिः पठ मत्फणीन्द्रभाष्यम् ॥ ३० ॥

इति कथयति रक्षसि प्रहृष्यन्निदमगदीदहमस्मि चन्द्रगुप्तः ।
उपगम इह मेऽयमुज्जयिन्याः पठितुमहीश्वरभाष्यमन्तिके ते ॥ ३१ ॥

इति गदितवते द्विजाय तस्मै फणिपतिभाष्यमशेषमाचचक्षे ।
शुचिरनिशमसंविशन्ननश्नंस्तदपि च मासयुगेन सोऽध्यगीष्ट ॥ ३२ ॥

प्रतिदिवसमसौ पपाठ यावद्भुजगकृतौ किल रक्षसः समीपे ।
अपचितवटपत्रजालगर्भे नखशिखरेण दृढं लिलेख तावत् ॥ ३३ ॥

[२]थ पृथुलशिरोणुमात्रकण्ठं चलदतिशुष्कपिचण्डमायतोरु ।
ह्रसिमभृदकृशाङ्घ्रिपाणि रक्षो वपुरपहाय स दिव्यमूर्तिरासीत् ॥ ३४ ॥



  1. ‘पुनरपि तदपृच्छदेष रक्षो’ क.
  2. ‘अथ पृथुशिथिलशिरोणुमात्रकण्ठं’ क.