शिखरितटनिषण्णमेणशावं कमपि यदम्बुनि ल[१]म्भितानुबिम्बम्।
ततकरकमलं गृहीतुकामा प[२]तिहसिता शबरी परं ललज्जे ॥ ४६ ॥
तटरुहसहकारमञ्जरीणां पयसि मुहुः प्र[३]तिबिम्बितानि यस्याः ।
मधुकरकुलमुज्झितारविन्दस्पृहमसकृद्भ्रमयांबभूवुरुच्चै: ॥ ४७ ॥
यदुपवनरसालवाटिकायां मणितमनुत्सुकया भिया विधातुम् ।
अरमत सुदृशा कयापि जारो मदकलकोकिलकूजितानि शृण्वन् ॥ ४८ ॥
ततमपि मणितं तटे यदीये तरुविटपाग्रकलक्वणत्कपोते ।
इह विहरति जारयुग्ममन्तर्निचुलनिकुञ्जभुवीति न व्यनक्ति ॥ ४९ ॥
कमलदलदृशा विटं कयाचित्कृतसमयं यदुपान्तनीपवन्याम् ।
व्यवहितविवृतोऽसकृत्कलापी तरुषु कचभ्रमकृन्निनाय दूरम् ॥ ५० ॥
स्फटिकनिभविसर्पिचन्द्रपादे कुवलयसौरभचोरगन्धवाहे ।
दयिततमपदानि जारिणीभिर्निशि निशि यत्पुलिने गवेषितानि ॥ ५१ ॥
व्रतिमतिततिभिः प्रतानिनीनामिह विजहार चिराय जारयुग्मम् ।
इति निजकुहरप्रकीर्णभूषामणिभिरुवाच यदीयतीरकुञ्जः ॥ ५२ ॥
करचरणपदानि यत्तटान्ते नवपुलिने निहितानि कुञ्जगर्भे ।
दयितसहचरीजनाय तस्याश्चतुरमचक्षत जारकेलिभेदम् ॥ ५३ ॥
विदितनिजपथेऽपि शालिगोपीं कथमिति पृच्छति पान्थयूनि मार्गम् ।
अयमिति [४]विहितस्मिता च सास्मै निरदिशदिक्षुवणं यदन्तिकस्थम् ॥ ५४ ॥
स्तनभरमभिवीक्ष्य शालिगोप्याः पथिकयुवा श्रम इत्यशेत कुञ्जे ।
अविरलपुलकस्तनी वितेने दिशि दिशि सा च दृ[५]शौ तटे यदीये ॥ ५५ ॥
पथिकयुवरदक्षताधरा यत्तटभुवि काचन शा[६]लिगोपकन्या ।