पृष्ठम्:पतञ्जलिचरितम्.djvu/३६

पुटमेतत् सुपुष्टितम्
३२
काव्यमाला ।

सहचरम[१]तिसंदधे चाटूक्त्या न दशति केलिशुको न मां सखीति ॥ ५६ ॥

सलिलविहरमाणसारसाक्षीकुचतटकुङ्कुमपङ्किला यदूर्मिः ।
पथिकयुवजनस्य पश्यतोऽन्तःकरणमरञ्जयदद्भुतं न तत्किम् ॥ ५७ ॥

तटमधिवसतो विटस्य तन्वीं सपदि यदम्बुनि मज्जतीमवेक्ष्य ।
[२]लमजनि मनो मृषा न चेदं यदियममज्जदिहापि साङ्गभूषा ॥ ५८ ॥

स्तनशिखरितटे तलोदरीणामतिकठिने पतिता दृशो विहाय ।
समजनि हृदयेषु हन्त पीडा तरुणजनस्य तटस्थितस्य यस्याः ॥ ५९ ॥

अहरदधररागमाससाद स्तनतटकुङ्कुममाममर्श काञ्चीम् ।
जघनघटनया चचाल यस्याः सलिलभरः सुकृती नितम्बिनीनाम् ॥ ६० ॥

गिरितटकठिनोपलाभिघातस्खलनझलज्झलितोरुनिर्झरा या ।
प्रकटसहचरापराधरोषक्षणपरुषोक्तिरिवाङ्गना बभासे ॥ ६१ ॥

अथ स बुधवरः श्रमेण तस्याः किमपि निपीय जलं तटद्रुमूले ।
दलचयमुपधाय वस्त्रबद्धं लिखितपतञ्जलिवाङ्मयं निदद्रौ ॥ ६२ ॥

तावन्निद्रावशमयमगाद्यावदस्योपधानं
वत्सः कश्चिद्वटदलचयग्रासलोलश्चकर्ष ।
उत्थायाथ ग्रसनचटुलादक्षिपद्वत्सवक्त्रा-
त्तद्दन्तालिक्षतलिपि हठात्केषुचित्तद्दलेषु ॥ ६३ ॥

इति श्रीयज्ञरामदीक्षितपुत्रस्य रामभद्रयज्वनः कृतौ पतञ्जलिचरिते
पञ्चमः सर्गः ।




  1. ‘इति संदधे’ ख.
  2. जल=जड. ‘किमसुभिर्ग्लपितैर्जड मन्यसे मयि निमज्जतु भीमसुतामनः । मम किल श्रुतिमाह तदर्थिकां नलमुखेन्दुपरां विबुधः स्मरः ॥’ इति नैषधकाव्ये.