चिरादिति प्रार्थयमानया तया समाधिदृष्टागमिपूर्वचेष्टितः ।
कृतस्मितस्तन्नवनीतमर्पितं यथेष्टमश्नन्स जहौ परिश्रमम् ॥ २२ ॥
तदिङ्गितैरेव विजानती द्विजं पतञ्जलेराकृतिभेदमागतम् ।
तमब्रवीदुद्वह मां कृपानिधे तुरीयवर्णप्रभवामपि त्विति ॥ २३ ॥
जगाद तामेवमुदीरितो द्विजो मनोरथो मानिनि ते फलोन्मुखः ।
उदूह्य वर्णत्रयकन्यका यतो विवोढुमीहेऽन्तिमवर्णजामिति ॥ २४ ॥
तदुक्तिमाकर्ण्य गृहं निनाय सा तमुल्लसद्यौवनमिन्दुसुन्दरम् ।
तया ततस्तज्जननीवितीर्णया समं पुरीमुज्जयिनीं जगाम सः ॥ २५ ॥
वटद्रुपर्णस्थितवर्णमेलनादथैष भाष्यं निखिलं पतञ्जलेः ।
लिलेख वत्सक्षतदुर्ग्रहाक्षरे स्थले क्वचित्कुण्डलनामकल्पयत् ॥ २६ ॥
निजे गृहे तत्र निविश्य पाठयंस्तदुज्जयिन्यां फणिभाष्यमाश्रुवान् ।
निनाय कालं नियमेन स द्विजः प्रियासु तुल्यं चतसृष्वपि स्थितः ॥ २७ ॥
त[१]दीयपातञ्जलभाष्यपाठनप्रभावसंदर्शनकौतुकादिव ।
तदा वसन्तस्तरुपुष्पपल्लवप्र[२]सञ्जनव्यञ्जितमूर्तिराययौ ॥ २८ ॥
नवप्रवाला नृपकेलिकानने बभासिरे बालरसालवल्लिषु |
जगत्त्रयीजेतुरनङ्गभूभुजो भुजप्रतापा इव दृष्टिगोचराः ॥ २९ ॥
वनेषु शाखाः सहकारभूरुहामदर्शयन्त प्रतिपर्व कुड्मलान् ।
चिरोज्झितेषु व्यसनोन्मुखस्मरप्रविद्धगात्रोत्पतितानिवाशुगान् ॥ ३० ॥
मधुव्रते गायति मञ्जु पार्श्वतः श्रमाम्बुतुल्यं म[३]करन्दमुज्झती ।
पुरो ननर्तेव पिकस्य पश्यतः समीरलोला सहकारमञ्जरी ॥ ३१ ॥
क्षणं भ्रमन्व्योम्नि शनैः क्षुपाञ्चले पदं वितन्वन्परितो विलोकयन् ।
समीरधूतामपि चूतमञ्जरीं न चञ्चरीको विजहौ चिरं पिबन् ॥ ३२ ॥