पृष्ठम्:पतञ्जलिचरितम्.djvu/४०

पुटमेतत् सुपुष्टितम्
३६
काव्यमाला ।

मृगीदृशां मानपरिग्रहानयः प्रियेषु मा भूदिति शम्बरद्विषः ।
अनङ्गभावादिव शासनाक्षरं पिकस्य कण्ठादुदियाय पञ्चमः ॥ ३३ ॥

रसालशाखामवलम्ब्य कश्चन द्विजश्चिरायाधिजगे कलस्वरम् ।
मनोजतत्त्वोपनिषद्गिरस्तथा प्रियेषु मानं सुदृशो यथा जहुः ॥ ३४ ॥

द्वि[१]जोऽपि रागं प्रतिपद्य चक्षुषो रजस्वलामेव रसालमञ्जरीम् ।
अचुम्बदेको म[२]धुपप्रियामिति स्मितं वितेने कुरबस्य कोरकः ॥ ३५ ॥

रसेन गन्धेन रजोभिरुज्ज्वलैरुपागतं सा तमुपाचरत्तथा ।
अचुम्बदाजिघ्रदमृक्षदादराद्यथा द्विरेफः कुरबस्य मञ्जरीम् ॥ ३६ ॥

मनोरमां चम्पकमञ्जरीं वने न षट्पदो वीक्षितुमेव चक्षमे ।
कथं नु दृष्ट्यापि सुवर्णसंभवा गृहीतुमर्हा मधुपस्य गायतः ॥ ३७ ॥

दिशत्यशोके कुसुमानि सुभ्रुवामकल्पताङ्घ्रिर्नवयावकाङ्कित: ।
नवागसां नादितरत्ननूपुरो विलासिनामाहननाय केवलम् ॥ ३८ ॥

युवा वियोगेऽभिनवानि केसरे स्थितानि पुष्पाणि दृशां निरीक्षितुम् ।
न चक्षमे यानि वधूकचार्पितान्यमूनि जिघ्रन्प्रजहर्ष संगमे ॥ ३९ ॥

रतान्ततान्तस्य रहो विलासिनीकचार्पितं केसरदाम कामिनः ।
अभीक्ष्णमाघ्रातमभूच्छ्रमापहं तदीयबिम्बाधरचुम्बनादपि ॥ ४० ॥

चकास्ति कीदृक्कियदत्र सौरभं नवेषु पुष्पेष्विति बोद्धुमिच्छवः ।
अशोकपुन्नागरसालमल्लिकावनेषु संचेरुरिवालिकुञ्जराः ॥ ४१ ॥

वसन्तसंसर्गवती वनस्थली श्लथालका षट्पदजालकश्रिया ।
रराज मल्लीमुकुलैरितस्ततो विहारकीर्णैरिव हरमौक्तिकैः ॥ ४२ ॥

क्वचित्सितं निर्मलमल्लिकारुचा क्वचिच्च गौरं नवचम्पकश्रिया ।
परत्र कङ्केलिदलत्विषारुणं त्रिवर्णमुद्यानमभूत्किमद्भुतम् ॥ ४३ ॥



  1. अयं श्लोकः ख-पुस्तके नास्ति.
  2. ‘मधुपप्रियाम्’ इत्येव पुस्तकद्वयेऽपि.