पृष्ठम्:पतञ्जलिचरितम्.djvu/४३

पुटमेतत् सुपुष्टितम्
७ सर्गः]
३९
पतञ्जलिचरितम् ।


स पुत्राणां तेषां जननसमयार्हाणि विधिव-
द्वितन्वन्कर्माणि द्विजकुलकृताशीः परिषदि ।
यथा यस्मै यावद्यदभिलषितं देयमददा-
त्तथा तस्मै तावत्तदुपनमितं स्वेन तपसा ॥ ६७ ॥

इति श्रीयज्ञरामदीक्षितपुत्रस्य रामभद्रयज्वनः कृतौ पतञ्जलिचरिते

षष्ठः सर्गः ।



सप्तमः सर्गः।


विदधत्क्रियाः शुभतराः परस्परं
प्रविभिन्नवर्णविलसत्परिग्रहः ।
निगमश्चतुर्भिरिव साधुभिः स्वरै-
स्तनयैरथ द्विजवरो व्यरोचत ॥ १ ॥

यमजीजनत्प्रथमवर्णकन्यका
तनयं द्विजो वररुचिं तमाख्यया ।
स्वयमाजुहाव कतवंशजन्मनः
पदशास्त्रवार्तिककृतः पवित्रया ॥ २ ॥
 
यमसूत चन्द्रमिव सिन्धुवीचिका
नृपकन्यकास्य विततान नाम सः ।
भुवि सोऽयमर्क इव विक्रमे भवे-
दिति विक्रमार्क इति विश्रुतं भुवि ॥ ३ ॥

वचसैव भर्तुमयमर्हति स्वयं
वसुधां नयानयविभागचुञ्चुना ।
इति वैश्यजातनुभुवः स भट्टिरि-
त्यभिधां चकार भटिधातुवाच्यवित् ॥ ४ ॥