पृष्ठम्:पतञ्जलिचरितम्.djvu/४४

पुटमेतत् सुपुष्टितम्
४०
काव्यमाला ।


धरणीं बिभर्ति दशभिः शिरःशतैः
प्रलये हरिष्यति च यो विषार्चिषा ।
फणिनोऽस्य भर्तृहरिरित्यभिख्यया
स समाह्वयच्चरमवर्णजासुतम् ॥ ५ ॥

सुदृशां तदा सुतमुखानि दृष्टयो
मधुरस्मितानि मुहुरालुलोकिरे ।
कमलानि गाढकुतुकाः कुमुद्वती-
तरलालिपङ्क्तय इव क्षपात्यये ॥ ६ ॥

चरणं करद्वयगृहीतमेककं
शिशुभिर्निवेशितमशोभतानने ।
शशिनि प्रपन्नमिव पूर्वमिन्दिरा-
कमलद्वयेन विधिपीठपङ्कजम् ॥ ७ ॥

शिशवस्तदा ददृशिरे महीतले
नमिताननाः सुलभजानुचंक्रमाः
फणिनं सहस्रवदनं प्रशासितुं
स्वधियेव विश्वमधरं विविक्षवः ॥ ८ ॥

अकृताहिरज्जुगिरिमन्थसंग्रहं
प्रबलासुरामरकुलानपेक्षणम् ।
अपकालकूटभयमादृतः पपौ
सुतजल्पितामृतरसं स भूसुरः ॥ ९ ॥

जननीकराग्रमवलम्ब्य पाणिभि-
र्भवनाङ्गणे यदवलन्त बालकाः ।
क्षितिमण्डले स किल तस्य पुत्रिता-
यशसामभूद्दिगवलम्बनक्रमः ॥ १० ॥