पृष्ठम्:पतञ्जलिचरितम्.djvu/५३

पुटमेतत् सुपुष्टितम्
७ सर्गः]
४९
पतञ्जलिचरितम्

मनसो गुणास्त्रय इव च्युता बभु-
र्मणिविद्रुमेन्द्रमणयो यदापणे ॥ ५६ ॥

परिशुद्धिदापि बत यत्र जाह्नवी
[१]लिनीकरोति किल मज्जतां गलान् ।
कथये किमन्यदतिशीतलापि सा ।
घटयत्यहो करतले हुताशनम् ॥ ५७ ॥

सरिदन्तरे ज[२]लमशीलितं नृणा-
मवगाढमाशु तुदते परं शिरः
बत यत्र दिव्यसरितस्तु तत्पुनः
कुरुतेऽधिरुह्य सततं च पञ्चधा ॥ ५८ ॥
 
स्तुतिपात्रमस्तु सुरदीर्घिका कथं
यदियं यद[३]न्तरचरी निमज्जताम् ।
समये करे च निटिले च पावकं
विनिधाय पाययति हा महाविषम् ॥ ५९ ॥

यदि धर्तुमिच्छति करोटिकास्रजं
यदि कर्णवेष्टनमहिं चिकीर्षति ।
यदि वा पिपासति विषं जनस्तदा
विदधातु यत्र विबुधापगाप्लवम् ॥ ६० ॥

शुचिरद्रिजारमणनेत्रनिर्गतः
प्रथमो ददाह किल का[४]ममूष्मलम् ।
इति शीतलः सुरनदीझरो नृणा-
मपरोऽपि यत्र षडरीनपोहति ॥ ६१ ॥



 
  1. 'मलिनीकरोति बत' क.
  2. 'जलमशीतलम्' इति क-पुस्तकस्थपाठो न साधुर्द्दश्यते.
  3. ‘यदन्तरचिरं' ख.
  4. ‘कामकुड्मलम्' ख.