विरहासहैरनुगतः स योगिभिः
परिपावनं बदरिकाश्रमं ययौ ॥ ६७ ॥
ब्रह्माद्वैतं पश्यताशेषविश्वं
गोविन्दखामीति गीतेन लोके ।
पुण्यक्षेत्रे तत्र नारायणीये
कांश्चित्कालानाश्रमे तेन तस्थे ॥ ६८ ॥
इति श्रीयज्ञरामदीक्षितपुत्रस्य श्रीरामभद्रयज्वनः कृतौ पतञ्जलिचरिते
सप्तमः सर्गः ।
अष्टम: सर्गः ।
प्रव्रज्य तातचरणे परया विरक्तया
काशीं गिरीश इव पावयति द्वितीये ।
ज्ञानेन शास्त्रजनितेन गृहीतधैर्या-
स्तस्यात्मजा वररुचिप्रमुखा न मम्लुः ॥ १ ॥
नात्यन्तमेव परिचिक्लिशुरिन्द्रियाणि
नाप्यन्ववर्तिषत तानि यथाभिलाषम् ।
स्वस्वानुरूपमवलम्बितशास्त्रमार्गाः
सर्वेऽपि संजगृहिरे सदृशं त्रिवर्गम् ॥ २ ॥
सर्वासु शास्त्रपदवीषु विचक्षणोऽपि
ग्रन्थान्व्यधाद्गणित एव जनोपकारान् ।
तेष्वग्रजो वररुचिर्दिवसेश्वरो हि
प्राच्यामुदेत्यखिलदिक्ष्वपि निर्निरोधः ॥ ३ ॥