तस्यानुजो भवति यः किल विक्रमार्कः
संक्रन्दनेन सुरलोकसभान्तराले ।
स स्वर्नटीनटनविभ्रमतारतम्य-
जिज्ञासया पटुरहूयत नाट्यदृष्टौ ॥ ४ ॥
निश्चित्य शासितवते दिवि तारतम्यं
नाट्येषु गोत्रभिददादभिनन्द्य तस्मै ।
राज्यं कुरु त्वमुपविश्य समाः सहस्र-
मस्मिन्क्षिताविति ततो मणिपीठमेकम् ॥ ५ ॥
रत्नासनेन सुरकिंकरधारितेन
साकं समागतवतो गिरमग्रजस्य ।
भट्टिर्निशम्य सचिवोऽस्य भवन्नुपाया-
द्द्वे चायुषामुपनिनाय तदा सहस्रे ॥ ६ ॥
मासान्षडेकशरदो मणिपीठमध्य-
मध्यास्य राज्यमकरोदनुजोपदेशात् ।
अन्यानरण्यचर एव तु षट् च मासा-
नित्यायुषामलभतायमुभे सहस्रे ॥ ७ ॥
भट्टिस्तदा सकलशास्त्रविशारदत्वा-
द्बुध्द्यानया नयविवेकधुरां वहन्त्या ।
कार्येषु तस्य नृपतेः स्वयमप्रमाद्य-
न्वोढाभरन्नट इवाजनि रज्जुमार्गे ॥ ८ ॥
बुध्द्याग्रिमोऽपि जनुषाः चरमः कनीया-
न्नामस्य राक्षसरिपोश्चरितप्रबन्धम् ।
नामाग्रजस्य परिगृह्य स भट्टिकाव्य-
मित्याततान सुपदैः पदशास्त्रलक्ष्यैः ॥ ९ ॥
पृष्ठम्:पतञ्जलिचरितम्.djvu/५६
पुटमेतत् सुपुष्टितम्
५२
काव्यमाला ।