पृष्ठम्:पतञ्जलिचरितम्.djvu/५९

पुटमेतत् सुपुष्टितम्
८ सर्गः ]
५५
पतञ्जलिचरितम् ।

न्यस्तः पुरा हनुमता निजवाललग्नः
प्रासादशृङ्ग इव पङ्क्तिमुखस्य वह्निः ॥ २२ ॥

आकृष्य सर्वमहिमद्युतिरंशुजालं
विद्वानिवेन्द्रियगणं विषयप्रपञ्चात् ।
आरुह्य चान्तिममिवाश्रममद्रिशृङ्ग-
मानन्दमद्वयमिवापरमब्धिमाप ॥ २३ ॥

हृ[१]त्वानुतापभरिते द्विजराजलक्ष्मीं
पाश्चात्यमब्धिमघनिष्कृतयेऽनुमङ्क्तुम् ।
चण्डद्युतौ व्रजति संभ्रमतोऽस्य शीर्णा
रेजुस्त्विषस्त्रिचतुरा इव सांध्यरागाः ॥ २४ ॥

भूमण्डलस्य कवलीकरणाय पूर्वं
तालीवनं प्रविशता तमसां भरेण ।
संदर्शिता ननु चमूविनिवेशभङ्ग्या
कालीकटाक्षकलुषः किल कालिमैकः ॥ २५ ॥

[२]क्रद्वयीमधिगताम्बुजनालडोला
मन्योन्यसंघटितपक्षपुटामकाण्डे ।



  1. 'भानोः पश्चिमशैलकन्दरकुटीमभ्येयुषः संभ्रमा-
    त्संध्यारागमिषेण किं विगलिता भान्ति त्विषः पञ्चषाः ।
    किं चैषा कृतनिश्चयेन कवलीकर्तुं महीमण्डली-
    माक्रान्ता प्रथमं घनेन तमसा नीला तमालाटवी ॥'
    इति श्रृङ्गारतिलकभाणे.
  2. ‘चकद्वन्द्वं चटुलनलिनीनालडोलाधिरूढं
    गाढाश्लिष्टं त्यजति रजनीजातविश्लेषदुःखम् ।
    नक्तं भुक्त्वा नवकुमुदिनीं विश्रमार्थीं विभाते
    गञ्जागेहं विकचकमलं गाहते चञ्चरीकः ॥'
    इति शृङ्गारतिलकभाणे.