पृष्ठम्:पतञ्जलिचरितम्.djvu/६२

पुटमेतत् सुपुष्टितम्
५८
काव्यमाला ।

भानुं करप्रहृतिकल्पितदन्तभङ्गं
पादाहतित्रुटितवक्षसमन्तकं च ॥ ३७ ॥

जानीमहे जगदधीश्वर यः पुरा ते
नालक्षयज्जवनमप्यधिरुह्य हंसम् !
अत्रेर्विधिः स तनयस्त्वयि भक्तिभाजो
भूत्वाधिगच्छति शिरः शिशिरः शशाङ्कः ॥ ३८ ॥

अन्विष्यतो मुहुरपि श्रमशुष्कतालो-
र्धातुश्चिराय जनितात्खलु विप्रलम्भात् ।
यत्पापमुत्थितमपास्तमिदं ममेति
पार्थाहतः किमु विवेद तवेश मूर्धा ॥ ३९ ॥

न स्तस्तवेश पितरौ श्वशुरः शिलात्मा
व्यालः स्वमार्गणतनुः सुतयोरथैकम् ।
लोकाः कुमारमितरं विदुरेकदन्तं
त्वं भिक्षुकोसि वसितुं वसनं कुतस्ते ॥ ४० ॥

मौ[१]नं विधाय गुरुरस्म्यहमित्यकाण्डे
किं विप्रलम्भयसि मूलगतो वटस्य ।
प्राचो मुनीनपि वृषध्वज यत्प्ररूढो
नाद्यापि ते विगलितः पशुपालभावः ॥ ४१ ॥

दग्धस्त्वया प्रथमतः प्रमथेश कामो
दग्धं पुरत्रयमथ स्मितलीलयैव ।
धत्से करेऽग्निमधुनापि जगन्ति दग्धुं
बिभ्यत्यतस्त्वदिह पञ्च यमादयोऽपि ॥ ४२॥



  1. 'चित्रं वटतरोर्मूले वृद्धाः शिष्या गुरुर्युवा ।
    गुरोस्तु मौनं व्याख्यानं शिष्यास्तु च्छिन्नसंशयाः ॥'.