पृष्ठम्:पतञ्जलिचरितम्.djvu/६६

पुटमेतत् सुपुष्टितम्
६२
काव्यमाला ।

पद्माकरोऽयमरविन्दविकासलक्ष्मीं
सानन्दमुद्वहति सांप्रतमित्यलीनाम् ।
नादच्छलादिव जगुर्मधुरं तदानीं
दिग्योषितो धृतनवातपकुङ्कुमाङ्ग्यः ॥ ५८ ॥

बिम्बे भजत्युदयमम्बुजबान्धवस्य
दध्यौ तदा पुरुषमेकमृषिः स दिव्यम् ।
आह श्रुतिर्भगवती किल यं हिरण्य-
श्मश्रुं हिरण्यकचमा प्रणखात्सुवर्णम् ॥ ५९ ॥

तेनान्ववर्ति मह्ता क्व[१]चिदुष्णशालि
शीतं क्वचित्क्वचिदृजु क्वचिदप्यरालम् ।
उत्कण्टकं क्वचिदकण्टकवत्क्वचिच्च
तद्वर्त्म मूर्खजनचित्तमिवान्यवस्थम् ॥ ६० ॥

आत्मानमक्रियमपव्यथमीक्षितापि
पान्थैः समं स चलितः पथि लोकरीत्या ।
आदत्फलानि मधुराण्यपिबत्पयांसि ।
प्रायादुपाविशदशेत तथोदतिष्ठत् ॥ ६१ ॥

तेन व्यनीयत तदा पदवी दवीय-
स्यासादितं बदरिकाश्रमभूतलं च ।
शंसन्ति यत्र वसतिं तरवो मुनीनां
शाखाभिरुज्ज्वलमृगाजिनवल्कलाभिः ॥ ६२ ॥

आदेशमेकमनुयोक्तुमयं व्यवस्य-
न्प्रादेशमात्रविवरप्रतिहारभाजम् ।



  1. ‘क्वचिदुष्णशाली’ क. तत्प्रामादिकमिति भाति.