मिलि-मत्तेभपुरे मेघनादविजितो मेघवाहन इव लङ्कानगरे ।
कासा -हा ! मम वत्सः कारागारं नीतः ?
मिलि–अथ किम् ।
कासा-भद्र ! जीमूतस्य मत्तेभकरोषसंभवावधि विदितो वृत्तान्तः । ततः परं यथाक्रममभिधीयतां निरवशेषम् ।
मिलि-तदनु “पद्मिनीं मत्तेभ एवापहृतवा” निति दृढनिश्चयं नीतो जीमूतः ।
धनुर्दधदतिज्वलन्नयनजस्फुलिङ्गस्फुर-
त्तटिद्बहुलगर्जितः प्रविकिरन् शरौघं मुहुः।
निजस्तनितनिस्वनश्रवणरुष्टमत्तेभके
स्वनत्ययमपातयत्कठिनमायुधं स्वं द्रुतम् ॥
विदू-तदो । (ततः)।
मिलि-ततः किं वक्तव्यं वज्ररातेन मत्तेभको व्यभेदीति ।
कासा-सखे ! पुरैव व्याहार्षीत खलु महायोगी । यदि दैवमनुकूलं जीमूतान्मत्तेभके वज्रं निपतिष्यतीति । जीमूतस्य शिखिना केनापि हरिणा च विनाशस्स्यादि" ति चाभ्यधायि महात्मना । कुतो वा समुत्पत्स्यते स हरिः शिखी च ?
मिलि-एवं तत्र विभिन्नमस्तके मत्तेभके मुखरितमासीद्दिशां दशकं हाहारवेण ।
कासा-भद्र ! तदिदं त्वया विदितं दृशा, किमुत श्रवसा ?
मिलि-अवगतमेतदावाभ्यां दृशैव ।
कासा-(स्व) एतावदन्तं वत्सो न बिनाभूतसख इति ज्ञायते । उपरि श्रृणुमः-- (प्र) तत:
मिलि-
- धावन्नसाधारणजातकामः स राजधाम्नि प्रतिमां मनोज्ञाम् ।
- सुजातजीवामिव वीक्ष्य काञ्चिद्गाढं समालिङ्गदहो भुजाभ्याम् ॥
कासा-सैव शारदानन्दप्रतिभासमुत्पादिता वत्साप्रतिकृतिः स्यात् ।
विदू-तदो तदो (ततस्तत:) ।
मिलि-ततः किमप्याश्चर्यं दृष्टम् ।