पृष्ठम्:पद्मिनीपरिणयः.pdf/१२३

पुटमेतत् सुपुष्टितम्
[XIII 2.
JOURNAL OF S. V. ORIENTAL INSTITUTE
सालावनीरुहसुदीर्घभुजस्सुवर्ण-
मालां वहन्गलतले धवलाम्बरश्रीः ॥

शार---किं करोति रामकिङ्करोऽयम् ?

काश-प्रणमति भार्गवीम् ।

कासा-भगवतीं रमां हरिवीरं च विलोक्य वत्सौ किमाचरतः?

काश-- तौ तयोर्नयनगोचरतां न याताविति मन्ये ।

कासा-कीदृशी कापालिका ?

काशा--उद्धृतखढ्ड्गा स्तब्धेव तिष्ठति।

शार--( स्वगतम् ) भगवत्या स्तम्भितभुजा स्यात्पाषण्डा । ( प्रकाशम् ) तत: !

काश-किमपि सल्लपतो हरिवल्लभाप्लवङ्गप्रमल्लौ ।

कासा–कथमिव ?

काश-तन्नावगम्यते ।

शार--ततस्ततः ।

काशा--उभौ तिरोदधाते ।

कासा-–हा ! कथमेतत् !

( प्रविश्य पटाक्षेपेणारुणः)

हा! कष्टम्
स्वपितरमवगम्यायान्तमानन्तुकामः
सविनयमुपगन्तुं यावदायात्सखा मे ।
सरभसमनुयातः केनचित्क्वापि नित्ये
केिमहममिदधामि च्छन्नरूपः स हर्ता ॥

कासा-कथमुपरतं जगद्भागधेयम् ? (इति मूर्च्छितः पतति) । ( प्रविश्य दौवारिकः) परिहारभूमिं गओ उदअधरो । (प्रतिहारभूमिं गत उद्रयधरः) । शार--प्रवेशय ।

दौवा--( निष्क्रम्य तेन सह प्रविश्य) हदो हदो । (इत इतः) ।

108