पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये दशमोऽङ्कः
- तावद्गतस्सकुतुकं सहसैव तत्र
- तां भास्करः प्रियतमामपसार्य धत्ते ॥
- तावद्गतस्सकुतुकं सहसैव तत्र
शार-अम्ब पद्मे ! पद्मिनीमवसि स्म भास्करमुपनीय । (इत्यञ्जलिं बध्नाति )। (उदयधरकासारौ शारदानन्दपादयोः पततः ) ।।
शार-
- मातस्सरोजसदने मरणात्स्वकीय-
- लोकस्य पालनमिदं तव नैव चित्रम् ।
- दारिद्यमत्र मरणादतिरिच्यमानं
- तूर्णं व्यपोह्म परिपालयसि स्वभक्तम् ॥
- कलयसि भक्तिं दघतां महदैश्वर्यं मधुद्विषो दयिते ।
- परमां भक्तिं चरणे दत्सं वहतान्तु मोक्षसाम्राज्यम् ॥
- मातस्सरोजसदने मरणात्स्वकीय-
तत: ।
काश--
- ओजायितेऽधुना कामं भास्करे पद्मिनीपतौ ।
- हिमानी खड्गमुत्सृज्य यत्र क्वापि निलीयते ।।
पलायन्ते पिशाचाः ।
कासा--आश्वस्ताः स्मः ।
काश--अहो महान् प्रमाद: । (सर्वे ससम्भ्रमम्) ।
शार--कथमिव ।
काश--
- अट्टहासयुता शूलपट्टसायुधधारिणी ।
- भैरवी पद्मिनीयुक्तं भास्करं तं जिघांसति ॥
शारदानन्दं विनाऽन्ये मूर्च्छन्ति ।
शार-सर्वान् मन्त्रपूतजलेन प्रोक्षयति । (उत्थाय सर्वे) । किं वा भविष्यति ।
शार-तत: ।
काश--
- कृताट्टहासां दरहासिवक्त्रा शूलं दधानां दधती सरोजम् ।
- रक्तेक्षणामेणविलोचनैषा तां वीक्ष्य लक्ष्मीरिह हुङ्करोति ॥
- केकयेव शिखण्डिन्या हुंकृत्या केवलं श्रियः ।
- उरगी भैरवी भीता वीतदर्पाऽद्य वेपते ॥
113