पुटमेतत् सुपुष्टितम्
[XIII. 1.
JOURNAL OF S. V. ORIENTAL INSTITUTE
पद्मि-हळा जामिणीवि संकुइदा । (यामिन्यपि सङ्कुचिता) (इति मूर्च्छति)
भ्रम-(वीजयित्वा) कुदो ण उच्छसिइ । (कुतो नोच्छ्वसिति ?। हा विहे! पदुमिणिं विणासिअ भमरिआजीविअं ओहरिदुं पउत्तोसि । (हा विधे! पद्मिनीं विनाश्य भ्रमरिकाजीवितमपहर्तुं प्रवृत्तोऽसि । (इति सिञ्चति शीतवारिणा) (निरूप्य) हा ! ण उम्मीळेइ ळोअणम् । (हा! नोन्मीलयति लोचनम्) ।
भास्क-अयमेवावसरो ममाविर्भवितुं, यतः प्रभातप्राया विभावरी । तथाहि
- वियति तुहिनरश्मिर्मध्यभागात्प्रतीचीं
- दिशमधिकमुपेतो दृश्यते पूर्णबिम्बः ।
- मुहुरयमनुकूजत्युत्थितस्ताम्रचूडो
- मुखरयति दिशः श्रीकान्तनाम द्विजानाम् ॥
- वियति तुहिनरश्मिर्मध्यभागात्प्रतीचीं
- कोकाङ्गनाविरहतापनिवृत्तिकालो
- मौनव्रतक्षतिकरः करटावलीनाम् ।
- मौनव्रतक्षतिकरः करटावलीनाम् ।
- नेत्रव्रजे तिमिरकृत्खलु कौशिकानां
- कालो विकासिकविधीः समुपस्थितोऽद्य ॥
- कोकाङ्गनाविरहतापनिवृत्तिकालो
- सद्यधुनाऽऽविर्भूय नोच्छ्वासयामि पद्मिनीं मीलितैव स्यात् । (इति प्रकटीभवन्) अहो प्रमादः ! कुतो नोच्छ्वसिति पद्मिनी ?
भ्रम-अज्ज सअळळोअखेमंकरेण तुह करेण परिमसदु भवं पदुमिणिम् । (आर्य ! सकललोकक्षेमङ्करेण तव करेण परिमृशतु भवान् पद्मिनीम्)।
भास्क-(करेण पद्मिनीं परिमृश्य स्पर्शसुखमभिनीय) (स्वगतम्) ।
- सुदती किमु वृन्तमोचितैर्नवमल्लीदलसञ्चयैः कृता ।
- उत बालसुधाकरप्रभारचिता सृष्टिकृतेक्षुधन्वना ॥
पद्मि-(उछ्वसिति)
भास्क-(तिरोधते स्तम्मे)
भ्रम-दिठ्ठिए उज्जीविआ पिअसही । (दिष्ट्या उज्जीविता प्रियसखी)
पद्मि-हळा ! किं सुहाधारासितं मह गतम् ? (किं सुमधारासिकं मम गात्रम्)
44