कासा-सखे ! किं कथितं कुमारेण स्त्रीरूपं धार्यमिति गुरुणा ?
विदू-वअस्स ! केण उण धरणिज्जम्! (वयस्य, केन पुनर्धरणीयम् !)
कासा-भवतैवास्तु ।
विदू-जदि मह घरिणी पुरुसरूवं धारेदुं संमण्णइ अहं इत्थिआरूपं धरिस्सम् ।
- (यदि मम गृहिणी पुरुषरूपं धारयितुं सम्मन्यते, अहं स्त्रीरूपं धारयिष्यामि )
(सर्वे हसन्ति ) (प्रविश्य)
कञ्चु-जीमूतप्रेषितानि भूषणानि वहन् कोऽपि प्रतिहारभूमिं गतः ।
कासा-(शारदानन्दमुखं पश्यति)
शार-तान्यादाय स विसृज्यताम् ।
कञ्चु–तथा (इति निष्क्रम्य, पुनः प्रविश्य) तानीमानि । (इति निधाय निष्क्रान्तः)
शार-वत्स ! विमुच्य धार्यमाणं पुरुषानुरूपं भूषणं भवता ध्रियतामिदं वधूभूषणतया प्रेषितं जीमूतेन । भ्रमरिकालङ्कारमखिलमादायालङ्क्रियतां मिलिन्दः ।
कुमु-(किमपि नम्रमुखस्तिष्ठति) ।
शार-वत्स ! किं चिन्तयसि ?
कासा-आर्य ! न जानीषे किमस्याशयम् ।
शार-जानद्भिरेवास्माभिः कौमुद्यै कुमुदाकरप्रतिच्छन्दप्रदर्शनपूर्वकं पद्मिनीरूपायाः प्रतिमायाः समाराधनरूपं किमपि व्रतमुपदिष्टम् ।
कासा-आर्य ! तदाराधनीयायाः प्रतिमाया: पद्यिनीरूपताहेतुः नावगम्यते ।
शार-अवगम्येत क्रमेण ।
कासा-(स्वगतम्) दुर्ज्ञेयमस्य हृदयम् । (प्रकाशम्) वत्स !
- उचितेऽनुचिते वाऽपि महतां वचनादरात् ।
- प्रविशन् पुरुषः क्वापि न स्खलेदिष्टलाभतः ॥
- उचितेऽनुचिते वाऽपि महतां वचनादरात् ।
विदू-मिलिन्द ! तुमं पुढमं ओदारेहि आहरणाइ धारिआइम् ।
- (मिलिन्द ! त्वं प्रथममवतारयाभरणानि धारितानि । (इति मिलिन्दाङ्गाद्भूषणं विमोचयति)
भ्रम-अज ! सअं एव्व अहं भूसणं ओदारेमि ! (आर्य ! स्वयमेवाहं भूषणमवतारयामि)