पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१३

पुटमेतत् सुपुष्टितम्

१८ काव्यमाला।

सत्त्वं चेदेकमप्यस्ति किमन्यैर्बहुभिर्गुणैः ।
तदेव हन्त चेन्नास्ति किमन्यैर्बहुभिर्गुणैः ॥ २१९ ॥
अहिंसा ब्रह्मचर्यं च पितृभक्तिश्च निश्चला ।
त्रयस्त्रिभुवने श्लाघ्याः शान्तनोस्तनुजे गुणाः ॥ २२० ॥
सर्वव्रतानां पारीणो मा स्मरीणः क्वचिद्भव ।
इत्यभिष्टुत्य निश्छद्म सद्म स्वं खेचरा ययुः ॥ २२१ ॥
ततो दुहितरं तूर्णमाहूयोत्सङ्गसङ्गिनीम् ।
कुर्वन्नुदीरयामास कुमारं नाविकेश्वरः ।। २२२ ॥
गुणग्रामैकवास्तव्यो नास्त्येव त्वत्समः पुमान् ।
पितुरर्थे कृतं सद्यो यद्ब्रह्मवतमद्भुतम् ॥ २२३ ॥
तवानेन चरित्रेण चित्रीयितमनाश्चिरम् ।
वृत्तान्तमेकमाख्यामि कुमार शृणु सांप्रतम् ॥ २२४ ॥
कालिन्दीकूलपालीषु विहरन्नहमेकदा।
अशोकानोकहतले विश्रामाय समागमम् ॥ २२५ ।।
तदा च जातां केनापि तत्र निस्त्रिंशचेतसा ।
सश्रीकामुत्थितामेकामद्राक्षं मञ्जुबालिकाम् ॥ २२६ ॥
अपत्यमनपत्योऽहं स्पृहयालुरहर्निशम् ।
सुरूपां तामुपादातुं प्रवृत्तोऽसि सविस्मयः ॥ २२७ ॥
विजातिर्वा सुजातिर्वा काप्यसाविति वेत्ति कः।
एवं विकल्प्य व्यावृत्य चलितोऽस्मि स्ववेश्मनि ॥ २२८॥
अत्रान्तरेऽन्तरिक्षान्तरुल्ललास सरस्वती।
अस्ति रत्नपुरे स्वस्तिधाम्नि रत्नाङ्गदो नृपः ॥ २२९ ॥
तस्य रत्नवती कुक्षिशुक्तिमुक्तेयमात्मजा ।
खेचरेणापहृत्यात्र विमुक्ता पितृवैरिणा ॥ २३० ॥
तामेतामतनुप्रेमा शान्तनुः परिणेष्यति ।
इति व्योमगिरा बालां ग्राहितस्तामहं तदा ॥ २३१ ॥