पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३०९

एतत् पृष्ठम् परिष्कृतम् अस्ति

३२० काव्यमाला।

शशंस सोऽपि भो विप्र कोऽपि पीनवपुः पुमान् । अध्यशेत शिलामेत्य तूलिकामिव लीलया ॥ ५५१ ॥ वेगादागत्य तमितो द्वितीयमिव पर्वतम् । निरीक्ष्य रक्षसां नेता निनाय निजभूधरम् ॥ ५५२ ॥ एतावत्यन्तरे क्रूरैरुत्कृत्योत्कृत्य खण्डशः । ध्रुवं कवलयांचक्रे स रक्षोभिर्बुभुक्षितैः ॥ ५५३ ॥ त्वां वध्यवेषमुद्वीक्ष्य ध्रुवं संभावयाम्यहम् । कश्चित्तवैव पर्याये सुकृती त्यक्तवानसून् ॥ ५५४ ॥ तच्छ्रुत्वातीव चक्रन्द वज्राहत इव द्विजः । हा परोपकृतिप्रौढ निर्व्यढाद्भुतसाहस ॥ ५५५ ॥ ममाधमर्ण्यमाधाय गत्वा राक्षसपासनम् । विश्वरक्षाक्षमैर्भ्रा‌तः प्राणैरप्रीणयः कथम् ॥ ५५६ ॥ न त्वया विदधे साधु प्राणैर्मामपि रक्षता । यतस्तृणमणिस्थाने हन्त चिन्तामणिर्गतः ॥ ५५७ ।। स विप्रो विलपन्नेवं निज संप्रेक्ष्य मानुषम् । पृथायाः कथयामास कथां दत्तव्यथामिमाम् ।। ५५८ ॥ पृथापि सह पाञ्चाल्या पक्किलं मार्गमश्रुभिः । कुर्वती वनमभ्यागात्साधै धर्ममुतादिमिः ॥ ५५९ ॥ काम्येऽपि कानने तस्मिन्नस्पृशन्तो रति कचित् । संगताः केसरस्याधस्ते सर्वे देवशर्मणा ॥ ५६० ॥ अथ शोकेन पक्ष्मान्तवान्ताश्रुकणधोरणिः । युधिष्ठिरमभाविष्ट द्विजः स्वानुशयाशयः ।। ५६१ ॥ इदं विश्वजनीनेन मत्प्राणत्राणकाङ्क्षिणा। ह हा हा दुःश्रमं तेन त्वद्भ्रात्रा कर्म निर्ममे ॥ ५६२ ॥ प्रणन्तुं कुलदेवीभ्यो यद्गतोऽस्मि दुनोति तत् । तत्रान्तरे महात्मासौ गत्वा रक्षोमुखेऽपतत् ॥ ५६३ ।।