पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३३१

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

अहो अमीषां माहात्म्यं वसेयुर्यत्र पत्तने । ईतिर्न तत्र नानीतिर्न व्याधिर्न च विप्लवः ॥ १२६ ॥ न मारिन च दुर्मिक्षं न च भीः परचक्रजा । केवलं सुखसंपद्भिर्मोदन्ते सप्रजाः प्रजाः ॥ १२७ ॥ (युग्मम्) चरेयुर्यदि कान्तारे प्रच्छन्ना अपि ते क्वचित् । तत्रापि पादपाः सत्यं नित्यपुष्पफलर्द्धयः ।। १२८ ।। अन्योन्यं कलहायन्ते न शाश्वतिकवेरिणः । दधते रससौन्दर्यमन्यवन्यफलान्यपि ॥ १२९ ।। अथ पृष्टो जनोऽस्माभिः क ते संप्रति पाण्डवाः। तेनाप्याख्यायि ते भद्रा ययुद्वैतवनेऽधुना ॥ १३०॥ अथागमाम तैश्चिहर्यत्र ते सन्ति पाण्डवाः । पुलिन्दवृन्दमध्यस्थांस्तांश्चापश्याम निश्चलाः ॥ १३१ ।। सहकारतरोर्मूले वन्यमासनमुत्तमम् । प्रातस्तदा विमुक्ताधिव्याधिस्तस्थौ युधिष्ठिरः ॥ १३२ ।। न केवलं विनीतास्तमुपासांचक्रिरेऽनुजाः । दूरं मुक्तान्यकर्तव्या आरण्याः पशवोऽपि च ॥ १३३ ॥ पाण्डवेयसभाबन्धोरुटजद्वारवर्तिनः । परावर्तत न छाया तस्य माकन्दभूरुहः ॥ १३४ ॥ तेषामद्भुतलक्ष्याणि स्वयं साक्षात्कृतान्यपि । अपि जिहासहस्रण को वर्णयितुमीश्वरः ॥ १३५ ॥ श्रुत्वेति पाण्डवोदन्तं तदा जज्ञे सुयोधनः । सखीभिः सपितः किं नु नीलिभिः किं नु रञ्जितः ॥ १३६ ॥ स विषण्णसदास्थानं विससर्ज चरैः सह । पुंसामुदित्वरे दुःखे न किंचिदपि रोचते ॥ १३७ ।। ततस्तमपि चारोक्तैस्तत्र तैस्तैः प्रियंवदः। लक्षणैर्लक्षये मजु पाण्डवानां निवेशनम् ॥ १३८ ॥