पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३७१

एतत् पृष्ठम् परिष्कृतम् अस्ति

४२४. काव्यमाला। सहायो विधुरे देवि नेदृशः क्वापि लभ्यते । प्रसीदासिंस्तदित्येवं भूपः कान्तामसान्त्वयत् ॥ २१६ ॥ हन्त पौरोगवेनाथ विराटस्य महीशितुः । वृषकर्परमाकर्ण्य चरेभ्यो धृतराष्ट्रभूः ॥ २१७ ॥ कर्णदुःशासनद्रोणगाङ्गेयसुबलात्मजान् । प्रद्विष्टमतिरेकत्र मीलयित्वेत्यमन्त्रयत् ॥ २१८ ॥ (युग्मम् ) कृत्योपायः पुरा चक्रे हन्तुं यः पाण्डुनन्दनान् । सोऽयं सुरोचनस्यैव प्रत्युत प्राभवत्क्षणात् ॥ २१९ ।। छन्नं च वसतः कापि समामेतां त्रयोदशीम् । पाण्डवान्संप्रति ज्ञातुं प्राहैषं वृषकर्परम् ।। २२० ॥ शतकोटिकठोराङ्गं सर्वसिन्नवनीतले । विना भीममलंभूष्णुर्जेतुमेनं न कश्चन ।। २२१ ॥ कुत्रापि यदि गुप्तोऽपि भवेदनिलनन्दनः । नूनं तन्न सहेतास्य भुजाहंकारडिण्डिमम् ॥ २२२ ।। युध्यमानोऽमुना भीमश्चेन्निहन्येत तन्मम । हतः स्यादहितो हन्यात्स वामुं विदितो भवेत् ॥ २२३ ॥ इत्याकूतवतो(ता) मल्लग्रामणीः प्रहितो मया । स मेदिनीं क्रमात्क्रामन्विराटलगरं ययौ ।। २२४ ।। तस्मिंश्च तस्य भूभर्तुः सूपकूद्वषकर्परम् । जघानेति श्रुतिर्जाने तन्नूनं स वृकोदरः ॥ २२५ ।। स यत्रास्ति ध्रुवं भाव्यं तत्रान्यैरपि पाण्डवैः । राजयक्ष्मा हि न श्वासकासश्लेष्मादिभिर्विना ॥ २२६ ॥ परं ते चेदतिव्यक्तिमानीयन्ते कथंचन । तत्तानुच्छेत्तुमुत्सेको मदीयः सफलो भवेत् ।। २२७ ॥ विराटपुरसंरोधप्र(पू)ष्टैरौपयिकैरपि । न ते व्यक्तिमुपेष्यन्ति तैरमीषां तु का कथा ।। २२८॥