पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५०९

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। गत्वरैरसुभिः क्रीतं कल्पस्थास्तु मया यशः । इति प्रीत्येव कस्यापि कबन्धोऽनृत्यदद्भुतम् ॥ ८२४ ॥ उज्जृम्भमाणपुंनागसंतानरसपायिनः । उल्लसत्पक्षसूत्रधराः खेलन्ति स्म शिलीमुखाः ।। ८२५ ॥ नूतनातपसंपृक्तनिहराम्बुविडम्बिभिः । दुर्वारै रुधिरोद्दारैः केऽपि भान्ति स भूभृतः ॥ ८२६ ॥ निरस्तनिखिलरातिकुलोऽथ नकुलो रणे । तत्कालं शेचक्रे वैरिनागाननेकशः ॥ ८२७ ॥ विशन्तो हृदयं सद्यो नकुलस्य शिलीमुखाः । विद्विषां मुखपद्मानि सुकुलीचक्रिरे द्रुतम् ॥ ८२८ ॥ नकुलस्य शराः कामं सेहिरे न विरोधिभिः। सारङ्गवैरिणः पाणिजन्मान इव कुञ्जरैः ॥ ८२९ ॥ तीव्रपातै रिपुत्रातैर्नाकुलैराकुलीकृताम् । चमूमालोक्य मद्रेशः क्रोधावेशादधावत ॥ ८३० ॥ अत्युद्धरैः शरैस्तस्य तरङ्गैरिव नीरधेः । निम्नगेव चमूश्चक्रे पाण्डवीया पराङ्मुखी ॥ ८३१ ॥ क्षुन्दति क्षत्रियव्यूहं ततस्तस्मिन्निरङ्कुशे । भ्रकुटीमङ्गभीमास्यो हरिरूचे तपःसुतम् ॥ ८३२ ॥ युधिष्ठिर समीचीनमुच्यसे त्वं युधिष्ठिरः । यदेवं रिपुणा सैन्यं हन्यमानमुपेक्षसे ।। ८३३ ।। पुंसः स्थमा हि सौस्थित्ये गुणत्वमवलम्बते । प्रत्यर्थिन्युत्थिते किं तु गुणश्चापाय चापलम् ।। ८३४ ॥ सिन्धुरेन्द्राः परे यूथं यूथपस्येव पश्यतः । पिंषन्ति यविषः सैन्यं नन्वियं ते त्रपा परा ।। ८३५ ॥ ऋष्टास्मि ते सुतं शल्योदरादिति गिरं निजाम् । एवं तिष्ठन्सुदेष्णाने कथं सत्यां करिष्यसि ॥ ८३६ ॥