पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/९२

पुटमेतत् सुपुष्टितम्

पाण्डवचरितम् ।

धनंजयस्य गुर्वङ्गसंवाहनभवश्रमः ।
महान्तमपि हन्ति स्म शस्त्राभ्यासपरिश्रमम् ॥ २६९ ॥
सुधास्वादं गुरोः पादपयः पीत्वा रजस्वलम् ।
निजां कपिध्वजश्चक्रे चित्रप्रज्ञामनाविलाम् ॥ २७० ॥
विनयं कुर्वतात्यर्थमर्जुनेन विशेषतः ।
सर्वशिष्यप्रियस्यापि गुरोरावर्जितं मनः ।। २७१ ॥
गुरुभक्तिसुधासेकसंपत्त्या सितवाजिनः ।
शिक्षावल्लिः फलस्फीतिमाततानातिशायिनीम् ।। २७२ ॥
सर्वातिशायिसबोधमकरन्दकरम्बिते ।
शिष्यप्रसूनपुञ्जेऽस्मिन्नर्जुनेनाम्बुजायितम् ॥ २७३ ॥
लक्ष्ये स्थिरे चले दूरेऽनपराद्धेपुमर्जुनम् ।
पश्यञ्जज्ञे सकर्णोऽपि कर्णा मनसि मत्सरी ॥२७४||
असौ साधारणः पन्थाः पुत्रो भवति यत्प्रियः ।
गुणैर्गुरोस्ततोऽप्यागात्मियतामर्जुनः पुनः ।। २७५ ।।
अवोचदेकदाचार्यों विनयावर्जितोऽर्जुनम् ।
कास्मि त्वां गुणैरेभिर्जगत्येकधनुर्धरम् ॥ २७६ ॥
प्रसादः स गुरोस्तच्च चापचातुर्यमद्धतम् ।
पार्थस्येदं द्वयं बाढं बाधते स्म सुयोधनस् ।। २७७ ।।
सद्गुणैः पाण्डवैः सार्धमुत्सलन्मत्सरौ तदा !
कर्णदुर्योधनौ मैत्रीमन्वभूतां परस्परम् ॥२७८ ॥
अनध्यायदिने क्वापि गोधाधारी धनुर्धरः ।
वने पुष्पकरण्डकाख्ये किरीटी क्रीडितुं ययौ । २७९ ॥
अपश्यत्तत्र तूणीवत्पूर्णास्यमफलैः शरैः ।
सारमेयममेयात्तविस्मयात्कंचिदर्जुनः॥ २८०॥
अभूत्तस्य मनस्येव तं वीक्षितवतस्तदा ।

अस्ति कापि प्रदेशेऽस्मिन्धुर्यः कश्चिद्धनुष्मताम् ॥ २८१ ।। १४