पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/104

पुटमेतत् सुपुष्टितम्
५४
पातञ्जलयोगसूत्रभाष्यविवरणे


[भाष्यम्]

कैवल्यं प्राप्तस्तर्हि ? सन्ति च बहवः केवलिनः ।

 ते हि त्रीणि बन्धनानि च्छित्त्वा कैवल्यं प्राप्ताः । ईश्वरस्य च तत्सम्बन्धो न भूतो न भावी । यथा मुक्तस्य पूर्वा बन्धकोटिः प्रज्ञायते नैवमीश्वरस्य । यथा वा प्रकृतिलीनस्योत्तरा बन्धकोटिः सम्भाव्यते नैवमीश्वरस्य । स तु सदैव मुक्तः सदैवेश्वर इति ।  योऽसौ प्रकृष्टसत्त्वोपादानात् ईश्चरस्य शाश्चतिक उत्कर्षः, स किं सनिमित्तः ? अहोस्वित् निर्निमित्त:? इति-तस्य शास्त्रं निमित्तम् ।

[ विवरणम् ]

 या ह्मनेन भोगेनापरामृष्ट इतेि उच्यते । न कालविवक्षा, उपलक्षणार्थत्वं—न परामृश्यते, नापि परामृक्ष्यते, नापि परामृष्ट इति । क्लेशकर्मविपाकाशयासंबन्धी(न्धयोगी)त्यर्थः ॥

 सूत्रार्थविशुद्धिं कुर्वन्नाह-कैवल्यं प्राप्तस्तहींतेि । क्लेशाद्यपरामर्शस्य कादाचित्कतयाऽपि संभवात् । सन्ति बहवः केवलिनः किं तदी[तेऽपी]श्वरा इति ?। परामर्शस्यापि संभवान्न त एकान्तेन क्लेशादिभिरपरामृष्टाः । परामर्शापरामर्शौ हि स्तः तेषाम् । ईश्वरत्वपरामृष्ट एव । न ह्यनवधृतः शब्दार्थो लक्षणत्वेनो पादेय: अपरामृष्ट इति । तस्माद्य एकान्तेनपरामृष्टः स एवापरामृष्ट इत्युच्यते ||

 ते हि त्रीणि बन्धनानि प्राकृतवैकृतदाक्षिणानि सम्यग्दर्शनेन हित्वा कैवल्यं प्राप्ताः । ईश्चरस्य तु तत्संबन्धः क्लेशादिसंबन्धो न भूतो यथा मुक्तस्य वा बन्धकोटिर्मुक्तत्वोपपत्तेरेव ज्ञायते। बन्धपूर्विका हि मुक्तिः। नापि भावी। यथा प्रकृतिलीनस्य | तस्य ह्यनारब्धसंसारस्य उत्तरा बन्धकोटिः सम्भाव्यते । प्रवृत्तसंसारस्य चाप्रकृतिलीनचित्तस्य सा(समा)धिकारत्वात् पूर्वोत्तरबन्धकोटी संभवतः । तदिदं सर्वमत्रापरामृष्ट इति कालाविवक्षाप्रदर्शनार्थम् । स तु सदैव मुक्तः सदैवेश्वरः ॥

 तत्र पुरुषविशेष ईश्वर इत्युक्तत्वात्, ईश्वरस्य पुरुषस्यानैश्चर्यधर्मत्वात्, चित्तस्य चैश्चर्यधर्मत्वात्, निरतिशर्यैश्वर्यस्य च प्रकृष्टचित्तसंबन्धापेक्षत्वात् प्राप्तमेवेत्तरार्थमनुवदति-योऽसौ प्रकृष्ट्रसत्त्वोपादानादीश्वरस्य शाश्वतिक उत्कर्ष इति । नित्यनिरतिशयसर्वज्ञानैश्वर्यशक्तिसम्पत्तिरुत्कर्षः ॥