पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/106

पुटमेतत् सुपुष्टितम्
५६
पातञ्जलयोगसूत्रभाष्यविवरणे

[भाष्यम्]

 एतयोः शास्रोत्कर्षयोरीश्चरसत्त्वे वर्तमानयोरनादिः सम्बन्धः । एतस्मादेतद्भवति- सदैवेश्वरः सदैव मुक्त इति । तच्च तस्यैश्चर्यं साम्यातिशयविनिर्मुक्तम् । न तावदैश्चर्यन्तरेण तदतिशय्यते । यदेवातिशायि स्यात्तदेव तत्स्यात् । तस्माद्यत्र काष्ठाप्राप्तिरैश्चर्यस्य स ईश्वर इति । न च तत्समानमैश्वै र्यमस्ति । कस्मात्? द्वयेोस्तुल्ययेरेकस्मिन् युगपत्

[ विवरणम् ]

 एतयोः शास्रोत्कर्षयोः प्रमाणप्रमेयतया निराद्यन्तः सम्बन्धः ॥ ननु च नैवेश्वरसत्वे[अ]वर्तमानेन शास्त्रेण तदुत्कर्षः प्रमीयते । नैष दोषः । तत्प्रभवत्वात्तत्र वर्तमानम् । वर्त(मान)त एव तत्प्रभवमपि शास्रं तस्मिन् सर्वज्ञत्वादेव । लोकेऽपि यतो यत्प्रभवति वर्तते तत्तस्मिन्, यथा तन्त्वादिषु पटादि । तत्प्रभवत्वमनुमानागमाभ्यामवगम्यते । शास्त्रप्रमाणकः उत्कर्षः, ईश्वरप्रमाणकं । शाखमिति भिन्नाश्रयत्वाच्छास्रोत्कर्षयोर्नेतरेतराश्रयत्वम् ॥ -

 ननु च शास्त्रादीश्वरप्रामाण्यं, तत्प्रामाण्याञ्च शास्त्रप्रामाण्यमिति स्यादन्योन्याश्रयत्वम्-उच्यते-ईश्वरप्रामाण्यस्यानुमानेन सिद्धत्वाददोषः ॥

 एतस्मादेतद्भवति । कस्मात् ? ईश्वरप्रकृष्टसत्त्वाश्रययोर्निरतिशयज्ञानोत्कर्षयोः कार्यकारणरूपे प्रबन्धनित्यतया नित्यत्वादेतद्भवति--स तु सदैव मुक्तः सदैवेश्वर इति । (इत्यत्राह्) तच्च तस्यैश्चर्यं साम्यातिशयविमुक्तमिति वक्ष्यमाणप्रमाणफलम् । एतत्सूत्रपिण्डार्थो वा ॥

 अतिशयविमुक्ततां व्याचष्टे-न तावदैश्चर्यान्तरेण तदतिशय्यते । कुतः? यदेवैश्चर्यान्तरं तदतिशयानं मन्यसे तदेव तत् ऐश्वर्यं मयाऽभिहितम् । यत्रैवैश्चर्यन्तरातिशायि भवत्यैश्वर्यै स एवेश्वर इति यावत् । न च तत्समानमैश्वर्यमस्ति । समानधर्मप्रकर्षासंभवात् ॥

 न ह्येकस्मिन् राज्ये द्वयोः संभवो राज्ञोः । एकस्य वा द्वे राज्ये । तथा प्रतिपादयति-तद्द्वयोस्तुल्यत्वं प्रसक्तम् । न ह्येकस्यान्यतरत्र प्राकाम्यमबाधित्वा अन्यतरस्मिन् प्रवृत्तिरुपपद्यते । द्वयोश्च युगपदेकार्थेयोरेकस्य प्राकाम्येण प्रवृत्तिरेव नास्ति। प्रकामिते वस्तुनि समानप्रकर्षस्यार्थस्य विरुद्धत्वात्।। येन च समानप्रकर्षता तस्य तेनैव स बाध्यते ।। (ते च) तच्च न वाचा बाधनमितरस्य रूपातिशया आवृत्त्यतिशयाश्च विरुध्यन्ते । सामान्यानि त्वतिशयैः सह वर्तन्त इति वक्ष्यामः |