पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/107

पुटमेतत् सुपुष्टितम्
५७
समाधिपादः प्रथमः

[ भाष्यम् ]

कामितेऽर्थे नवमिदमस्तु पुराणमिदमस्तु इत्येकस्य सिद्धौ इतरस्य प्राकाम्यविघातादूनत्वं प्रसक्तम् । द्वयोश्च तुल्ययोर्युगपत् कामितार्थप्राप्तिर्नास्ति । अर्थस्य विरुद्धत्वात् । तस्मात् यस्य साम्यातिशयैर्विनिर्मुक्तमैश्चर्यं स एवेश्वरः । स च पुरुषविशेष इति ॥ २४ ॥

[ सूत्रम् ]

तत्र निरतिशयं सर्वज्ञबीजम् ॥ २५ ॥

[ भाष्यम् ]

 किञ्च--यदिदमतीतानागतिप्रत्युत्पन्नप्रत्येकसमुचयातीन्द्रियग्रहणमल्पं बह्निति सर्वज्ञबीजमेतद्विवर्धमानं यत्र निरतिशयं स सर्वज्ञः ! अस्ति काष्ठाप्राप्तिः सर्वज्ञबीजस्य, सातिशयत्वात्, परिमाणवत् इति । यत्र काष्ठाप्राप्तिर्ज्ञानस्य स सर्वज्ञः । स च पुरुषविशेष इति ॥

[ विवरणम् ]

 तस्माद्यस्य साम्यातिशयविप्रोषितमैश्वर्यं स ईश्वर इति प्रधानपुरुषव्यतिरिक्तः पुरुषविशेष ईश्वरः सिद्धः ॥ २४ ॥

 यथाप्रतिज्ञातस्येश्वरस्य सिद्धौ प्रमाणमुपन्यस्यते--तत्र निरतिशयं सर्वज्ञबीजम् । तत्र तस्मिन् यथाप्रतिज्ञातलक्षण ईश्वरे निरतिशयं भवितुमर्हति । किं तदिति ? यदिदम् अव्यभिचारि प्रत्यक्षानुमानज्ञानम् अतीतविषयम् अनागतविषयं (वर्तमानकाल)प्रत्युत्पन्न[विषय]मतीतादिसमुच्चयविषयम् अतीन्द्रियविषयं च । अतीन्द्रिययोरतीतानागतयोः संभवादतीन्द्रिय[ग्रहणमित्युच्यते |

 तच्चातीन्द्रियग्रहणं त्रिविधम्-सूक्ष्मविषयं व्यवहितविषयं विप्रकृष्टविषयश्च । अल्पं बह्निति । यथाप्रसिद्धमेतद्विवर्धमानं सातिशयत्वेन सर्वज्ञबीजं यथा। धूमविज्ञानमनिविज्ञानस्य । कथम् ? यत्र प्रकर्षकाष्ठां प्रतिपद्यते । ज्ञानस्य ज्ञात्राश्रयत्वात् यत्रेति ज्ञातोच्यते--यस्मिन् ज्ञातरीति । स सर्वज्ञः सिद्धः ॥

 तथा शक्तिरपि सातिशयत्वेन विवर्धमाना यत्र काष्ठां प्राप्नोति, स सर्वशक्तिः ।तेन जगन्निर्माणस्थापनोपसंहादिकर्तृत्वसिद्धिः । तथैश्वर्यस्यापि वर्धमानस्य यत्र काष्ठाप्राप्तिः, स परमेश्वरः । ततश्च अशक्त्यादिविपर्ययदोषाभावसिद्धिः ॥ 8