पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/116

पुटमेतत् सुपुष्टितम्
६७
समाधिपादः प्रथमः


  किं चान्यत्-अभ्युपगततादृकूप्रतिषेधे, यथा घटो घटो न भवति, वस्तुत्वात्, पटवादिति, एवमिहापि स्यात् ॥

  किं च-निरवधिकस्यानभ्युपगमे, प्रमेत्वादीनाम् [अ]पक्षधर्मत्वमाश्रयासिद्धत्वं च । तदभ्युपगमे हि किं साध्यं भवेत् ? यो हि तृप्तवन्तं ब्रूयात् माऽत्रात्सीरिति, किं तेन कृतं स्यात् ॥

  अथापि स्यात्--निरवधिकमीश्वरमभिसन्धाय तस्य सर्वज्ञत्वं निषेधामीति । नैदतपि युक्तमू-सर्वज्ञत्वस्यापि निरवधिकत्वात् ॥

 अपि च सातिशयैश्वर्यसर्वज्ञत्वयोरुत्कर्षानुत्कर्षविषयत्वेन व्यभिचारान्नेश्वरसवैज्ञशब्दमुख्याभिधेयत्वम् । यथा महदादयः शब्दा व्यभिचरितमहत्वादिषु घटादिष्वमुख्याः, नाकाशादिषु, तथैवात्रापि निरतिशयमैश्वर्यं सर्वज्ञत्वं चाव्यभिचारीति स एव मुख्यः शब्दार्थः । न च मुख्यनिराकरणं साधिमानमृच्छति ॥

 किं च--यथा भवता अनुमानागमप्रसिद्धेश्वरस्य प्रमेयत्वादिधर्मविकल्पतया सवैज्ञत्वं निराक्रियते, तथैव प्रमेयत्वादिभिरचेतनत्वमपि घटादिवदेव प्रानुयात् । अविरोधात् । यथा प्रमेयत्वं[अjसवैज्ञत्वेन व्याप्तमेवमचेतनत्वादिभिरपि ।

 प्रत्यक्षविरोध इति चेतू-इहापि अनुमानागमविरोधं किं कटाक्षेणापि नेक्षसे ॥

 नापि च प्रमेयत्वादिधर्मसामान्येन सपक्षे विपक्षे वा किञ्चित्। कचिदध्यारोपयितुं शक्यम्। वस्तुविषये सर्वत्र प्रमेयत्वादीनामास्तित्वात् । न मतिमोहनाथैः प्रमेयत्वाद्युपन्यासः ॥

 अथ आत्मत्वादिति चेत्, मुक्तात्मवदज्ञत्वप्रसङ्गः स्याद्भवदीश्वराणाम् । प्रत्यक्षादिविरोध इति चेत्-अत्राप्यनुमानादिविरोधः पूर्ववदेव ॥

 भूतभविष्यत्कालयोरपि ईश्वरस्यानुपलब्धार इतीदानीन्तनेश्वराणामुपैलब्धृभिरनैकान्तिकं प्राणित्वादित्यादि । किं च अतीतानागतकालयोरपि सातिशयत्वादिलिङ्गैरुपलब्धवन्त उपलप्स्यमानाश्च प्राणिनः प्रमाणकुशलाः, प्रमाणकुशलत्वात्, अस्मदादिवत्।

 अथ अशरीरत्वादसर्वज्ञः, मुक्ताकाशादिवत् इति चेत्-न-सशरीरत्वात् । व्यक्ताव्यक्तं हि सर्वमशरीरं सशरीरत्वादनिलेश्वरत्वं धर्माद्यपेक्षत्वादित्युक्तत्वादिति