पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/127

पुटमेतत् सुपुष्टितम्

$6 फलकम्:गप्पातञ्जलयोगसूत्रभाष्यावैवरणे

$6 पातञ्जलयोगसूत्रभाष्याविवरणे [ भाष्यम् } सर्गान्तरेष्वपि वाच्यवाचकशक्त्यपेक्षस्तथैव सङ्केतः क्रियते । सम्प्रतिपत्तिनित्यतया (नित्यः शब्दार्थसम्बन्ध इत्यागमिनः प्रतिजानते ॥ २७ ॥ [ विवरणम् ]

अथ ब्रूयादनुमितात् संबन्धादर्थानुमानमिति । स वक्तव्यः कथमनुमितः शब्दार्थसम्बन्धः ? इति ।

saw स चेत् ब्रूयातू-कार्यदर्शनादर्थं हि प्रतीत्य पश्वादनुमिनोति तत्संबन्धम् । यथा चक्षुषा रूपमुपलभ्य चक्षुस्संबन्धमिति । स प्रतिवक्तव्यः---सिद्धा तर्हि विनाऽनुमानेन शब्दादेव प्रतिपत्तिरिति ॥ यो हि ग्राष्ट्रपाकेनैव कृतार्थ: किं तस्य किलोशिपाकेन। अथासकृत् प्रयोगदर्शनाद्गृह्यते सम्बन्धः, यथाऽग्निधूमयोरिति चेत्- न तु ब्रूमः न हि सहस्रेष्वपि प्रयोगेषु प्रत्यक्षेण शब्दार्थयोः सबन्धो गृह्यते यथाऽग्निधूमयोरादावपि संबन्धो गृह्यते । वाक्येऽप्ययमेव । तस्मादवस्थितमेव वाच्यस्येश्वरस्य वाचकेन प्रणवेन सम्बन्धमवद्योतयति सङ्केतो यथा स्थितं पितापुत्रसंबन्धम् । सङ्केतोपायापेक्षत्वात् प्रथमश्रुतान्नार्थः प्रतीयते । यथा चक्षुष आलोकाभावे ॥ ननु च शब्दानित्यत्वपक्षे कथमनित्ये संबन्धिनि नित्यः संबन्ध इति । न ह्यनित्ययो रज्जुघटयोः संबन्धो नित्यः स्यात् । उच्यते--यथा प्रमाणप्रमेययोरिन्द्रियविषययोश्व क्रियाकारकाणा संबन्धः स्थित एवनित्येष्वपि संबन्धिषु, तद्वदत्रापि स्थित एवाव्यभिचारेण संबन्धः सर्गादिष्वपि वाच्यवाचकशक्त्यपेक्षः सङ्केतः । यथैव रूपचक्षुषोग्राह्मग्राहकशक्त्यपेक्षयैव सर्गादौ सर्गस्तथेहापि वाच्यवाचकशक्त्यपेक्षयैव सङ्केतः क्रियते ॥ सम्प्रतिपत्तिर्नित्यतया वृद्धपरम्परयैव गम्यगमकभावेन शब्दार्थयोः संप्रतिपतिर्नित्या नान्यथेतेि आगमिनो वेदवादिन: प्रतिजानते । सम्प्रतिपत्तिश्व शब्दार्थसंबन्धस्य हेतुस्तदेषाम् ॥ तदेतदुक्तं भवति--यद्यागमिपक्षः स्यादथान्यपक्षः, सर्वथा स्थित एव संबन्धः पितापुत्रयोरिव सङ्केतेनाभिव्यज्यत इति ॥