पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/137

पुटमेतत् सुपुष्टितम्
८८
पातञ्जलयोगसूत्रभाष्यविवरणे


[भाष्यम् ]

 1कथञ्चित् समाधीयमानमप्येतत् गोमयपायसीयन्यायमाक्षिपति ।

 किंच--स्वात्मानुभवापह्नवः चित्तस्यान्यत्वे प्राप्नोति । कथम् ? 'यदहमद्राक्षं तत्स्पृशामि' यच्चास्प्राक्षं तत्पश्यामि’ इत्यहमिति प्रत्ययः

[ विवरणम् ]

मङ्कुरविनाशनमिति जननं विनाश इत्युक्तं भवति । अङ्कुरो हि क्रियैव कारकमिति वोच्येत । (चितः) ॥

 अथापि स्यात्--अन्यै(न्यस्यै)वाङ्कुरजननक्रियाया अङ्कुरविनाशक्रियेति--तथाऽप्यङ्कुरजननस्य नित्यत्वप्रसङ्गः । विनाशस्यान्यत्वादेव ॥

 अथापि नाशजननवद्वस्तु शबलमिति, तथाऽप्यभावस्य शबलत्वं प्रसज्येत । कथम् ? क्रियाव्यतिरिक्तस्य कारकस्याभावेऽपि नाश एव जननविनाशवान् जननमेव जननविनाशवदिति ! न ह्यभावस्य शबलत्वादिविशेषो निर्विशेषत्वाद्भावाभावयोश्चाविरोधातू प्रत्यक्षानुमानानुपपत्तिः ॥

 यदप्युच्यते---तुलान्तयोर्नामोन्नामाविति---तत्र युक्ता तुलान्तयोरेककालयोर्विद्यमानत्त्रादन्यतरस्य वस्त्वन्तरगौरवनिमित्ता आनतिरन्यतरस्य चोन्नतिः ।इह पुनर्भवद्भविष्यत्कालयोर्विज्ञानयोर्नाशोत्पत्ती तुलानामहेतुवत्तृतीयस्य निमित्तान्तरस्याभावादेककालं नोपपद्येते । विनश्यदेव विज्ञानमात्मसदृशं जनयतीति न शक्यं वक्तुम् । न हि देवदत्तो म्रियमाण एवात्मसमानं पुत्रं जनयति विनाशेनाक्षणत्वात् ॥

 अथ मृत्पिण्डो यथा घटमुत्पादयन् विनश्यति, तद्वदिति चेत्---तच्च न ---मृदवयवानामेव घटाकारेण परिणतत्वात् । एकैव हि मृत्पिण्डघटादिबहुधर्मयोगिनी ॥

 यच्चापि बीजेषु द्रव्यान्तरवासितेषु वासकद्रव्यानुविधायित्वं वास्यद्रव्यस्येतितदप्यकारणम् वास्यवासकयोरवस्थितत्वात् । अवस्थितान्येव हि बीजेष्वङ्कुरादीनि वास्यन्ते बीजवासनेन । तदन्यत्वात् वासकद्रव्यस्याप्यवयवाननुप्रविष्टाः सूक्ष्मा विद्यन्त एव । तस्माद्विद्यमानान्येवाङ्कुरादीनि बीजवासनया वास्यन्त


1.विवरणरीत्या इदं पदं भाष्ये नास्तीति भाति ।