पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/184

पुटमेतत् सुपुष्टितम्
१३६
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

 यथा नामित्रो मित्राभावः, न मित्रमात्रं, किंतु तद्विरुद्धः सपत्नः । यथा वा अगोष्पदं न गोष्पदाभावः, न गोष्पदमात्रं, किंतु देश एव

[ विवरणम् ]

विशेषतत्वोऽर्थः प्रज्ञायेत । या तु विपरीतख्यातिः पूर्वोक्ता अविद्येति सा पारिभाषिकी स्यात् ॥

 ततः को दोषः स्यात् ? अविद्याशब्दश्रवणे सन्देहः स्यात् । किं प्रसिद्ध एव शब्दार्थः परिभाषितः शास्त्रसंव्यवहारार्थं, यथा लोके येष्वर्थेषु प्रसिद्धानि पदानि तानि सति सम्भवे तदर्थान्येव सूत्रेष्वित्यवगन्तव्यं इति । अथाशब्दार्थ एव, यथा 'इको गुणवृद्धी' इति । ततश्चानिश्चिते पदार्थे नाविद्याशब्देन व्यवहारः क्रियेत ॥

 अथोत्तरपदार्थप्राधान्यं समानाधिकरणत्वान्नीलोत्पलवत्, तत्रापि नीलोत्पलशब्दार्थयोरविरोधद्विशेष्यविशेषणभावेन संबन्धो युक्तः ॥

 इह नञा निवृत्तिरुच्यते । विद्याशब्देनापि विद्या । तत्र यद्युत्तरपदस्यार्थं प्रधानं प्रति गुणभूतो नञ् तस्यैवोत्तरपदार्थस्याभावं कुर्यात्, तदा तद्गुणत्वमेव ह्रीयेत । नापीतरस्य प्राधान्यम् ॥

 यो हि कञ्चिन्निर्वर्तयितुं अनुप्रस्थितो निर्वर्त्यमेव व्यापादयेत्, न तस्य निर्वर्त्य प्रति गुणत्वम् । नापि निर्वर्त्यस्य प्रधानता, तद्वत् । तस्मात् प्रधानवशवर्तिना गुणेन भवितव्यमिति विद्यायामन्यस्याभाव एवेति केवलो नञ् नित्यानुवादीति विद्यामात्रं प्रतीयेत ॥

 तदेतदेवं कृत्वोच्यते । 'तस्याश्चामित्रागोष्पदवद्वस्तुसतत्वं विज्ञेयम्' इति । यथा अमित्रो न मित्राभावः यथा पूर्वपदार्थप्राधान्ये अर्धपिप्पलीति । न मित्रमात्रम् । यथोक्तं उत्तरपदार्थप्राधान्ये प्रधानवशवर्तिना गुणेन भवितव्यं, न प्रधानविनाशेनेति । तथा चोक्तम--"[१]अब्राह्मणमानयेत्युक्ते ब्राह्मणमात्रस्यानयनं प्राप्नोती"ति नञ्वार्तिके । उत्तरपदार्थप्राधान्यपक्षे नञो नित्यानुवादत्वात् । एवममित्र इति । एवमविद्यादि ॥

 यथा वा अगोष्पदं न गोष्पदाभावो न गोष्पदमात्रं, किन्तु देश एव ताभ्यां गोष्पदाभावगोष्पदमात्राभ्याम् अन्यद्वस्त्वन्तरम् । [कथमेवम् ?]


  1. महाभाष्यम्. 2. 2. 6.