पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/195

पुटमेतत् सुपुष्टितम्
१४८
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

किमेकङ्कर्मैकस्य जन्मनः कारणम् ? अथैकं कर्मानेकं जन्माऽऽक्षिपतीति ।

 द्वितीया विचारणा-किमनेकं कर्मानेकं जन्म निर्वर्तयति ? अथानेकं कर्मैकं जन्म निर्वर्तयतीति ।

[ विवरणम् ]

 स्वर्गार्थानि च तावदनुतिष्ठति । नरकप्रापीणि च कर्माणि । तत्रैकस्य ब्रह्महत्यादिकर्मणोऽनेकजन्मकारकत्वं श्रूयते [१]श्वसूकरखरोष्ट्राणामेत्यादिस्मृतेः ॥

 तत्र विरुद्धदेशकालनिमित्तविपाकानां कर्मणामेकजन्मारम्भे विरुद्धविपाकतादर्थ्यं ह्रीयेत । ततश्च तादर्थ्यचोदनाः कर्मणां बाध्येरन् ॥

 अथ पर्योयेण जन्मारम्भित्वं, कर्मणामसंख्येयत्वात् केनचिदेव फलमारब्धं नान्यैरिति, तत्र नियमानुपपत्तिः, केनारब्धः केन वा नेति । तथा च कर्तॄणां कर्मफलं प्रत्य(प्य)विस्रम्भादुत्साहविभङ्गः स्यात् अभ्युदयनिश्रेयसप्रवृतिषु ।

 अथान्यतमेनारम्भे विनाश एवान्येषामिति, तथाऽपि स एव दोषः, किं विनष्टं किमारम्भकमित्यनियमात् ।

 अथाविनाश एव, तथाप्यवशिष्टस्यारम्भकालाभावो मोक्षाभावश्चेति । तस्मात्प्रवृत्तिनिवृत्तिशास्त्रार्थवत्वप्रतिपादनार्थमिदं विचार्यते ॥

किमेकं कर्म एकस्य जन्मनः कारणं स्वर्गादिप्राप्तिनिमित्तेषु बहुषु कर्मसु सत्सु । अथैकं कर्मानेकं जन्माक्षिपतीति प्रथमा विचारणा । विरुद्धपक्षद्वयालम्बिनी हि विचारणा एकैव स्यात् ॥

 द्वितीया विचारणा-किमनेकं कर्मानेकं जन्म निर्वर्तयति विरुद्धफलमविरुद्धफलं वा । अथानेकं कर्मैकं जन्म निर्वर्तयति विरुद्धफलमविरुद्धफलं वा ॥


  1. "श्वसूकरखरोष्ट्राणां गोऽजाविमृ गपक्षिणाम् । चण्डालपुल्कसानां च ब्रह्महा योनिमृच्छति ॥"