पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/206

पुटमेतत् सुपुष्टितम्
१५९
साधनपादो द्वितीय:

[ भाष्यम् ]

 कथं ? तदुपपाद्यते--

[ सूत्रम् ]

 परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥ १५ ॥

[ भाष्यम् ]

 सर्वस्यायं रागानुविद्धश्चेतनाचेतनसाधनाधीनः सुखानुभव इति तत्रास्ति रागजः कर्माशयः ।

[ विवरणम् ]

 कथं विषयसुखकाले योगिन: दु:खमस्ति ? तथा पूर्वत्र चोक्तं[१] दु:खे सुखख्यातिं वक्ष्यतीति। तदुपपाद्यते प्रतिपाद्यते । तत्र चैतन्न प्रतिपादितम् । दुःखस्य कर्मकार्यत्वात्, कर्मानन्तरं प्रतिपादनं युक्तमिति, बहुवक्तव्यत्वाच्च । परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥

 परिणतिः परिणामः, तप्तिस्तापः, संस्कृतिः संस्कारः, तापश्च संस्कारश्च तापसंस्कारौ, परिणामश्च तापसंस्कारौ च परिणामतापसंस्कारा:, त एव दुःखा दुःखनिमित्तानि, एतैः परिणामतापसंस्कारदुःखैर्हेतुभिः सर्वमेव दुःखम् । किन्तत्सर्वं ? क्लेशा दुःखकारणत्वादेव हेतो: | कर्माणि ह्लादपरितापफलत्वात् जात्यायुर्भोगाश्च क्लेशादीनामाश्रयनिमित्तविषयाश्च दुःखहेतुत्वादित्येतत्सर्वमेव दुःखम् ॥

 किं सर्वस्यैव ? नेत्याह- विवेकिन इति । क्लेशादीनां विभागविवेको यस्य विद्यते स विवेकी ; तस्य क्लेशकर्मविपाकाभिज्ञस्य परिणामतापसंस्कारगुणवृत्तिविरोधात्मक(धाच्च)सर्वदुःखत्वोपपादक(प्रतिपादक)हेत्वभिदर्शिन इत्यर्थ: । नेतरस्यानित्यंदर्शिनः ॥

 तस्य तु तप्तिमात्रं दुःखम् । तदपि'अहं तप्य' इत्यात्मत्वेन प्रतिपद्यमानः तत्रापि संशयानोऽसौ ममेदं दुःखमित्येतावन्मात्रमपि विविङ्क्ते । यदि ह्येतावदप्यन्तरं विविञ्चीत, ततो दुःखसाधनमप्येतद्दुःख(साधन)मिति मन्वीत ।


  1. या. सू. पा 2, सू, 5.