पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/217

पुटमेतत् सुपुष्टितम्



१७०
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

 उपादाने च हेतुवाद्, उभयप्रत्याख्याने शाश्वतवाद, इत्येतत्सम्यग्दर्शनम् ॥ १५ ॥

[ विवरणम् ]

 हातुश्च हेयत्वाभ्युपगमे तस्यानवस्थितत्वाद्धेयसम्बन्धानुपपत्तिः । हातुरनवस्थितत्वे च स्वयमेव हेयत्वप्रतिपत्तेर्हातुर्हानायोद्यमानर्थक्यप्रसङ्गः । हानफलानुपपत्तिश्व | न हि बद्धस्य स्वरूपनाश एव फलम् । मोक्षो हि तस्य फलम् । नापि म्रियमाणोऽपि ज्ञातक्षणान्तरमरणः स्वरूपविनाशमिच्छति । विनाशस्यार्थप्राप्तत्वादेवमनवस्थितश्चेद्धाता न स्वरूपहानमिच्छेत्, अर्थप्राप्तेर्हानस्य ॥

 यथा च हातुर्नित्यत्वं तथा द्रष्ट्टसूत्रे[१] कैवल्यपादे च व्याख्यास्यामहे । तस्मान्न हेयत्वधर्मा पुरुषः । संसारस्तु महदादिव्यक्तिः दुःखबहुलो हेयः । तत्तुल्यधर्मकः पुरुषो न भवतीत्यर्थः । तत्तुल्यधर्भकत्वे तस्योच्छेदत्वादप्रसङ्ग इति ॥

 अस्तु तर्ह्युपादेयः, यथा सुखार्थं सुखकारणं द्रव्यम् । नैतदेवम् । कस्मात् ? उपादाने त्वस्य हेतुवादप्रसङ्गात् । यस्य द्रव्याद्युपादानफलेन सम्बन्धः स चेदुपादीयेत, तन्निर्हेतुकमस्योपादनं स्यात् । अन्यस्योपादातुरभावात् । न हि पटः पटेनैवोपादीयते । अन्यस्य ह्यन्यदुपादेयम् । उपादात्रन्तरसम्भवे हि तदनवस्थाप्रसङ्गः; सोऽप्यन्येनोपादीयते सोऽपि चान्येनेति ॥

 किं च-पारार्थ्यप्रसङ्गश्च । अन्यस्य हि हेतोरन्यदुपादीयते, सत्त्वादिलक्षणस्य प्रधानस्योपादाने पुरुषो हेतुरभ्युपेयते, यथा घटाय मृत्पिण्डोपादाने कुलालो हेतुः । स चेत्पुरुषः प्रधानोपादानहेतुः प्रधानवदुपादीयेत, तस्यापि सत्त्वादिधर्मत्वं स्यात्, उपादेयत्वान्मृत्पिण्डवत् । ततोऽस्य प्रधानस्य निर्हेतुकं कार्यार्थमुपादानं प्राप्नोति ॥

 अथेश्वरार्थमुपादेयः, पुरुषाणां वा परस्परार्थमिति चेत्, भोग्यत्वाचेतनत्वपरिणामित्वादिदोषसामग्री प्रसज्येत, तस्मान्नापि प्रधानधर्मकः पुरुष इत्युपादाने च हेतुवादप्रसङ्ग इत्युच्यते ॥

 तदुक्तम्-हेतुस्त्वपुरुषो भवतीति । तस्य चोपादने अहेतु: प्रधानवृत्तिर्निर्हेतुकी स्यात् । न च स्वयं स्वार्थं शक्यं विज्ञातुम् । प्रकाशादिषु स्वार्थत्वादर्शनात् ॥


  1. यो. सू. पा. 2. सू. 17.