पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/298

पुटमेतत् सुपुष्टितम्
२५४
पातञ्जलयोगसूत्रभाष्यविवरणे



[ भाष्यम् ]

तदा अतीतः, इत्येवं 'धर्मिणां नित्यत्वात् धर्मलक्षणाऽवस्थानां कौटस्थ्यं प्राप्नोति इति परैः दोष उच्यते ॥

 नासौ दोषः ? कस्मात् । गुणिनित्यत्वेऽपि गुणानां विमर्दवैचित्रयात् ॥

 यथा संस्थानं आदिमत् धर्ममात्रं शब्दादीनां ‘विनाशि अविनाशिनाम् , एवं लिङ्गं आदिमत् धर्ममात्रं सत्त्वादीनां गुणानां विनाशि अविनाशिनाम् । तस्मिन् विकारसंज्ञा इति ॥

 *तत्रोदाहरणम्। मृत् धर्मी पिण्डाकारात्* आकारान्तरं उपसम्पद्यमानः धर्मतः परिणमते घटाकार इति । घटाकारोऽनागतं लक्षणं हित्वा

[विवरणम् ]

तदा अतीतः । तत्र स एव धर्मः कृतः क्रियमाणः करिष्यमाणः निजव्यापारोपारूढः धर्मिस्वात्मभूत एवावस्थापितः । न व्यतिरिक्तरूपः । तेन धर्मिणां गुणानां नित्यत्वात् नित्यत्वाव्यतिरेकात् धर्मलक्षणावस्थनां कौटस्थ्यं प्रामोतीति दोष उच्यते ॥

 नासौ दोषः । कस्मात् ? गुणिनित्यत्वेऽपि गुणानां विमर्दवैचित्र्यात् उद्भवाभिभवत्वविचित्रतया पुरुषवदेकान्तकूटस्थता नेष्यते गुणानाम् । परिणामाभ्युपगमात् । न चानवरतपरिणतीनामपि परस्परविमर्दातिरेकेण द्रव्यान्तरभावापत्तिरिति न कौटस्थ्यम् ॥

 कथं विमर्दवैचित्र्यमित्याह-यथा संस्थानं शरीरादिकं [आदिमत् कारणवत् धर्ममात्रं कारणस्यात्मभूतमव्यतिरिक्तं विनाशि तिरोभावधर्मकं धर्मान्तरसमुदये । केषां संस्थानमित्या(मा)ह-शब्दादीनामविनाशिनाम्। एवं लिङ्गं महदाख्यं आदिमत् कारणवत् धर्ममात्रं विनाशि गुणानामविनाशिनाम् आत्मभूतम् । तस्मिन् महदादिधर्ममात्रे विकारसंज्ञा न गुणानां विमर्दविचित्रतया विनाशित्वं गुणस्वरूपेण नित्यत्वं इति ॥

 तत्रोदाहरणम्-मृत् धर्मी पिण्डाकारा पिण्डाकारात् आकारान्तरं घटं उपसम्पद्यमानो धर्मः परिणमते ॥


 1. धर्मधर्मिणोः लक्षणानामवस्थानां च को-

 2. -नां गुणानां वि-

 3. तत्रेदसुदाहरणम्

 4. -त् धर्मात् धर्मान्तरं