पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/303

पुटमेतत् सुपुष्टितम्
२५९
विभूतिपादः तृतीयः
[सूत्रम् ]

 क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ १५ ॥

[ भाष्यम् ]

 एकस्य धर्मिणः एक एव परिणाम इति प्रसक्तेः,1 क्रमान्यत्वं परिणामान्यत्वे हेतुः भवति इति ॥

 तद्यथा-चूर्णमृत्, पिण्डमृत्, घटमृत् , कपालमृत् , कणमृत् इति2 क्रमः । यो यस्य धर्मस्य समनन्तरो धर्मः, स तस्य क्रमः ।

 पिण्डो3 घट उपजायत इति धर्मपरिणामक्रमः ।



[ विवरणम् ]

 इदानीं परिणामभेदे हेतुरुच्यते-सिद्धे हि भेदे परिणामत्रयसंयमः प्रयोक्तुरुपकल्पेत । यत: कयाचिल्लिङ्गद्वारा अतीतादिषु मतिरुपजनयितुं शक्यते, नान्यथा इति, क्रमान्यत्वं परिणामान्यत्वे हेतुः । एकस्य धर्मिणः चित्तादेः एक एव परिणाम इति प्रसक्तेः धर्मादीनां धर्म्य​भेदादिति, परिणामभेदसिद्धये हेतुरेष उच्यते--क्रमान्यत्वम् । क्रमः अनन्तरभावः तस्यान्यत्वं भेदः ॥

 त्रयो हि क्रमा अन्योन्यविघ​र्मण उपलक्ष्यन्ते । लक्षणावस्थाक्रमाभ्यामन्यो धर्मक्रमः । धर्मावस्थाक्रमाभ्यामन्यो लक्षणक्रमः । धर्मलक्षणक्रमाभ्यामन्योऽवस्थाक्रमः । यच्च तेषामन्यत्वं प्रसिद्धमार्गमधिरूढं तत् क्रमकार्याणां परिणामानामनुमापकं अन्यत्वे हेतुः ॥

 तद्यथा मृत् धर्मी चूर्णमृत् इति चूर्णादिभिर्धर्मैरयुगपत्कालजन्मभिः क्रमवर्तिभिः परिणमते । सर्वत्र मृद्ग्रहणेन धर्मिणो मृदाख्यस्य परस्परलक्ष्यमाणभेदचूर्णपिण्डघटकपालकणादिधर्मानुगमं प्रतिपादयति ॥

 चूर्णस्यानन्तरः पिण्डः, पिण्डस्यानन्तरो घटः, घटस्यानन्तराणि कपालानि, कपालानां कणा अनन्तरा इति धर्म एव चूर्णमृत्, पिण्डमृत्, घटमृत्, कपालमृत्, कणमृत्, इति क्रमः, धर्मान्तरस्य क्रमः । न लक्षणं, नाप्यवस्था । यथा-यो यस्य धर्मस्य समनन्तरो धर्मः स तस्य क्रमः । कथम् ? पिण्डो घट उपजायत इति पिण्डरूपा मृत् घटीभवतीत्यर्थः । अभेदोपचारेण पिण्डो घट उपजायत इत्युच्यते । न पुनः पिण्डो धर्मो धर्मोन्तरात्मतां


1. --क्त्ते क्र.

2. --ति च

3. --ण्डः प्रच्यवते घट-